००९

सर्वाष् टीकाः ...{Loading}...

०१ आ नो दिश

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो दिश मा परि ष्ठा अराते
मा नो रक्षीर् दक्षिणां याचमानाम् ।
प्र णः प्रदाता सविता च यच्छतां
नमो वीर्त्साया असमृद्ध्यै च कृण्मः ॥

०२ यम् अराते पुरोधत्से

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अराते पुरोधत्से
पुरुषं परिरापिणम् ।
नमस् ते तस्मै कृण्मो
मा वनिं मम विव्यथः ॥

०३ यम् अद्याभिप्रयुञ्ज्महे मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

यम् अद्याभिप्रयुञ्ज्महे
मनसा हृदयेन च ।
अराते तं नो मा वीर्त्सीर्
दित्सन्तं परिरापिणि ॥

०४ प्र णो वनिर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र णो वनिर् देवकृता
दिवा नक्तं च सिध्यतु ।
अरातिम् अनुप्रेमो वयं
नमो ऽस्त्व् अरातये ॥

०५ उत नग्ना बोभुवती

विश्वास-प्रस्तुतिः ...{Loading}...

उत नग्ना बोभुवती
स्वप्नया सचसे जनम् ।
अराते चित्तं वीर्त्सन्त्य्
आकूतिं पुरुषस्य च ॥

०६ परो ऽपेह्य् असमृद्धे

विश्वास-प्रस्तुतिः ...{Loading}...

परो ऽपेह्य् असमृद्धे
वि ते हेतिं नयामसि ।
यं द्विष्मस् तं सचस्व
कन्या भूत्वा स्रग्विणी रुक्मिणी दृशे ॥

०७ नमस् ते ऽस्त्व्

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते ऽस्त्व् असमृद्धे
मा मां पुरोधिं कृणुथाः ।
वेद त्वाहं निमीवन्तीं
नितुदन्तीम् अराते
मर्त्यान् मर्त्येभ्यो अधि निर्वदन्तीम् ॥

०८ मा नो वनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो वनिं मा वाचं मा वीर्त्सीर्
उग्राव् इन्द्राग्नी न आ भजतां वसूनि ।
सर्वे नो ऽद्य दित्सन्तो
अरातिं प्रति हर्यत ॥

०९ सवितारम् अनुमतिं भगम्

विश्वास-प्रस्तुतिः ...{Loading}...

सवितारम् अनुमतिं
भगं यन्तो हवामहे ।
वाचं जुष्टां मधुमतीं वदानि
देवानां देवहूतिषु ॥

१० यं याचामि नकुल्या

विश्वास-प्रस्तुतिः ...{Loading}...

यं याचामि नकुल्या
जिह्वयोष्ठापिधानया ।
श्रद्धा तम् अद्य विन्दतु
दत्ता सोमेन बभ्रुणा ॥