सर्वाष् टीकाः ...{Loading}...
०१ यो नः पापेन
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः पापेन वचसा-
-अघोषतो दुरुक्तं ब्रुवत् ।
आराच् छप्तम् अप्राप्यास्मान्
अप तद् यातु सर्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नः पापेन वचसा-
-अघोषतो दुरुक्तं ब्रुवत् ।
आराच् छप्तम् अप्राप्यास्मान्
अप तद् यातु सर्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यन् नः शपाद्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् नः शपाद् अरणो यत् सपत्नः
श्वश्रूर् वा यच् छ्वशुरो वा शपाति ।
ज्यायसः शपथान् वयं
यवेन यावयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् नः शपाद् अरणो यत् सपत्नः
श्वश्रूर् वा यच् छ्वशुरो वा शपाति ।
ज्यायसः शपथान् वयं
यवेन यावयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ यान् समस्यन्ते शपथान्
विश्वास-प्रस्तुतिः ...{Loading}...
यान् समस्यन्ते शपथान्
वाक्क्षम्यानृत्वियामधि ।
यवं त्वं बिभ्रद् बाह्वोः
पूर्वः प्रति शृणीहि तान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यान् समस्यन्ते शपथान्
वाक्क्षम्यानृत्वियामधि ।
यवं त्वं बिभ्रद् बाह्वोः
पूर्वः प्रति शृणीहि तान् ॥
सर्वाष् टीकाः ...{Loading}...
०४ ऋजुकेशो यवो बभ्रुर्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋजुकेशो यवो बभ्रुर्
मघवा नो ऽनुमाद्यः ।
हिरण्यधन्वा शपथान् उपेजतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋजुकेशो यवो बभ्रुर्
मघवा नो ऽनुमाद्यः ।
हिरण्यधन्वा शपथान् उपेजतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्वां पीत्वेन्द्रो वृत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां पीत्वेन्द्रो वृत्रं
शक्रो जघान वासवः ।
स विषाही यथर्षभः
सहस्व शपथान् यव ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वां पीत्वेन्द्रो वृत्रं
शक्रो जघान वासवः ।
स विषाही यथर्षभः
सहस्व शपथान् यव ॥
सर्वाष् टीकाः ...{Loading}...
०६ आराच् चरन्तु शपथा
विश्वास-प्रस्तुतिः ...{Loading}...
आराच् चरन्तु शपथा युता इतो
जिह्वा उ दिता अरसाः सन्तु सर्वे ।
नामग्राहाद् वाचो हेडाद्
ईक्षिताद् घोरचक्षसः
शर्म ते वर्म कृण्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आराच् चरन्तु शपथा युता इतो
जिह्वा उ दिता अरसाः सन्तु सर्वे ।
नामग्राहाद् वाचो हेडाद्
ईक्षिताद् घोरचक्षसः
शर्म ते वर्म कृण्मसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ अपाञ्चो यन्तु शपथा
विश्वास-प्रस्तुतिः ...{Loading}...
अपाञ्चो यन्तु शपथा
जनेनास्ता अघायुना ।
यो नो दुरस्याज् जीवते
स्वेनानागसे सते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाञ्चो यन्तु शपथा
जनेनास्ता अघायुना ।
यो नो दुरस्याज् जीवते
स्वेनानागसे सते ॥
सर्वाष् टीकाः ...{Loading}...
०८ परि मा पातु
विश्वास-प्रस्तुतिः ...{Loading}...
परि मा पातु शपथाद्
अनृताद् दुरिताद् उत ।
परि मा ज्यायसः शंसाद्
यवो रक्षतु मा रिषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि मा पातु शपथाद्
अनृताद् दुरिताद् उत ।
परि मा ज्यायसः शंसाद्
यवो रक्षतु मा रिषम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अनास्तिग्यं शपथैर् अनतिव्याध्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनास्तिग्यं शपथैर्
अनतिव्याध्यं कृतम् ।
बृहद् वर्म प्रति मुञ्चामि ते यवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनास्तिग्यं शपथैर्
अनतिव्याध्यं कृतम् ।
बृहद् वर्म प्रति मुञ्चामि ते यवम् ॥
सर्वाष् टीकाः ...{Loading}...
१० तं वयांसीव पक्षिण
विश्वास-प्रस्तुतिः ...{Loading}...
तं वयांसीव पक्षिण
आ विशन्तु पतत्रिणः ।
शप्तारं शपथाः पुनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं वयांसीव पक्षिण
आ विशन्तु पतत्रिणः ।
शप्तारं शपथाः पुनः ॥