००७

सर्वाष् टीकाः ...{Loading}...

०१ दर्भो अग्र ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

दर्भो अग्र ओषधीनां
शतकाण्डो अजायत ।
स सहस्रवीर्यः
परि णः पातु विश्वतः ॥

०२ यथा दर्भो जायमानस्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा दर्भो जायमानस्
त्वचं भिनत्ति भूम्याः ।
एवा स भिद्यतां जनो
यो नः पापं चिकित्सति ॥

०३ अप नाडम् अप

विश्वास-प्रस्तुतिः ...{Loading}...

अप नाडम् अप कृत्याम्
अप रक्षः सदान्वाः ।
अमीवाश् चातयामसि
सर्वाश् च यातुधान्यः ॥

०४ अस्ति वै निवत

विश्वास-प्रस्तुतिः ...{Loading}...

अस्ति वै निवत उद्वनं
न वै सर्वम् अनुप्लवम् ।
असि त्वं तस्य दूषणो
यो नः पापं चिकित्सति ॥

०५ परि सायं परि

विश्वास-प्रस्तुतिः ...{Loading}...

परि सायं परि प्रातः
परि मध्यंदिनं परि ।
दर्भो हिरण्यहस्तघ्नः
परि णः पातु विश्वतः ॥

०६ गिरौ जातः स्वर्

विश्वास-प्रस्तुतिः ...{Loading}...

गिरौ जातः स्वर् अहासि
साकं सोमेन बभ्रुणा ।
मा पापकृत्वनः शिषो
मा पाकः पुरुषो रिषत् ॥

०७ दिवो मूलम् अवततम्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो मूलम् अवततं
पृथिव्याम् ओत आहितः ।
दर्भः सहस्रवीर्यः
परि णः पातु विश्वतः ॥

०८ सहस्रकाण्डस् तविषस् तीक्ष्णवल्शो

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रकाण्डस् तविषस्
तीक्ष्णवल्शो विषासहिः ।
दर्भेण सर्वा रक्षांस्य्
अमीवाश् चाप दहामसि ॥

०९ अपदग्धं दुष्वप्न्यम् अपदग्धा

विश्वास-प्रस्तुतिः ...{Loading}...

अपदग्धं दुष्वप्न्यम्
अपदग्धा अरातयः ।
सर्वाश् च यातुधान्यः ॥

१० मा त्वा दभन्

विश्वास-प्रस्तुतिः ...{Loading}...

मा त्वा दभन् यातुधाना
मा ब्रध्नः शकुनिः पतन् ।
दर्भो राजा समुद्रियः
परि णः पातु विश्वतः ॥