सर्वाष् टीकाः ...{Loading}...
०१ सत्यस्य स्थूणा पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यस्य स्थूणा पृथिवीं दाधार
ऋतेन देवा अमृतम् अन्व् अविन्दन् ।
ध्रुवेण त्वा हविषा धारयाम्य्
अभि तद् द्यावापृथिवी गृणीताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यस्य स्थूणा पृथिवीं दाधार
ऋतेन देवा अमृतम् अन्व् अविन्दन् ।
ध्रुवेण त्वा हविषा धारयाम्य्
अभि तद् द्यावापृथिवी गृणीताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ येभिर् होमैर् विश्वकर्मा
विश्वास-प्रस्तुतिः ...{Loading}...
येभिर् होमैर् विश्वकर्मा
दाधारेमां पृथिवीं मातरं नः ।
तेभिष् ट्वा होमैर् इह धारयाम्य्
ऋतं सत्यम् अनु चरन्तु होमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येभिर् होमैर् विश्वकर्मा
दाधारेमां पृथिवीं मातरं नः ।
तेभिष् ट्वा होमैर् इह धारयाम्य्
ऋतं सत्यम् अनु चरन्तु होमाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ इह ध्रियध्वं धरुणे
विश्वास-प्रस्तुतिः ...{Loading}...
इह ध्रियध्वं धरुणे पृथिव्या
उशत्या मातुः सुभगाया उपस्थे ।
अपराणुत्ता महसा मोदमाना
अस्मिन् वास्तौ सुप्रजसो भवाथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह ध्रियध्वं धरुणे पृथिव्या
उशत्या मातुः सुभगाया उपस्थे ।
अपराणुत्ता महसा मोदमाना
अस्मिन् वास्तौ सुप्रजसो भवाथ ॥
सर्वाष् टीकाः ...{Loading}...
०४ सुप्रजसो महसा मोदमाना
विश्वास-प्रस्तुतिः ...{Loading}...
सुप्रजसो महसा मोदमाना
वर्ष्मन् पृथिव्या उपरि श्रयध्वम् ।
अस्यै शालायै शर्म यच्छन्तु देवा
धाराभिर् एनां पृथिवी पिपर्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुप्रजसो महसा मोदमाना
वर्ष्मन् पृथिव्या उपरि श्रयध्वम् ।
अस्यै शालायै शर्म यच्छन्तु देवा
धाराभिर् एनां पृथिवी पिपर्तु ॥
सर्वाष् टीकाः ...{Loading}...
०५ इमां शालां श्रेष्ठतमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमां शालां श्रेष्ठतमां वसूनाम्
अरिष्टवीरा अभि सं चरेम ।
दृढा अस्या उपमितो भवन्तु
स्थिरा वीरा उपसदो भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां शालां श्रेष्ठतमां वसूनाम्
अरिष्टवीरा अभि सं चरेम ।
दृढा अस्या उपमितो भवन्तु
स्थिरा वीरा उपसदो भवन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०६ इमां शालां सविता
विश्वास-प्रस्तुतिः ...{Loading}...
इमां शालां सविता वायुर् इन्द्रो
बृहस्पतिर् नि मिनोतु प्रजानन् ।
उक्षन्तूद्ना मरुतो घृतेन
भगो नो राजा नि कृषिं दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमां शालां सविता वायुर् इन्द्रो
बृहस्पतिर् नि मिनोतु प्रजानन् ।
उक्षन्तूद्ना मरुतो घृतेन
भगो नो राजा नि कृषिं दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०७ मानस्य पत्नि हविषो
विश्वास-प्रस्तुतिः ...{Loading}...
मानस्य पत्नि हविषो जुषस्व
तीव्रान्तस्य बहुलमध्यमस्य ।
आ त्वा शिशुर् वाश्यताम् आ कुमार
आ वाश्यन्तां धेनवो नित्यवत्साः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मानस्य पत्नि हविषो जुषस्व
तीव्रान्तस्य बहुलमध्यमस्य ।
आ त्वा शिशुर् वाश्यताम् आ कुमार
आ वाश्यन्तां धेनवो नित्यवत्साः ॥
सर्वाष् टीकाः ...{Loading}...
०८ दृढास् ते स्थूणा
विश्वास-प्रस्तुतिः ...{Loading}...
दृढास् ते स्थूणा भवन्तु भूम्याम् अधि
दृढाः पक्षासस् तव देवि शाले ।
स्थिरवीरानमित्रा न एधि
शर्म नो यच्छ द्विपदे चतुष्पदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
दृढास् ते स्थूणा भवन्तु भूम्याम् अधि
दृढाः पक्षासस् तव देवि शाले ।
स्थिरवीरानमित्रा न एधि
शर्म नो यच्छ द्विपदे चतुष्पदे ॥
सर्वाष् टीकाः ...{Loading}...
०९ शाला देवी गार्हपत्याय
विश्वास-प्रस्तुतिः ...{Loading}...
शाला देवी गार्हपत्याय चाक्ल्̥पे
तृणं वसाना जगते सुशेवा ।
स्थिराङ्गां त्वा स्थिरपूरुषां मानस्य पत्नि
स्थिरां त्वा वीरा अभि सं चरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
शाला देवी गार्हपत्याय चाक्ल्̥पे
तृणं वसाना जगते सुशेवा ।
स्थिराङ्गां त्वा स्थिरपूरुषां मानस्य पत्नि
स्थिरां त्वा वीरा अभि सं चरेम ॥
सर्वाष् टीकाः ...{Loading}...
१० वास्तोष्पते प्रति जानीह्य्
विश्वास-प्रस्तुतिः ...{Loading}...
वास्तोष्पते प्रति जानीह्य् अस्मान्
स्वावेशो अनमीवो न एधि ।
यत् त्वेमहे प्रति नस् तज् जुषस्व
चतुष्पदो द्विपद आ वेशयेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
वास्तोष्पते प्रति जानीह्य् अस्मान्
स्वावेशो अनमीवो न एधि ।
यत् त्वेमहे प्रति नस् तज् जुषस्व
चतुष्पदो द्विपद आ वेशयेह ॥