००५

सर्वाष् टीकाः ...{Loading}...

०१ वैश्वानराद् अरोचत जातो

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानराद् अरोचत
जातो हिरण्ययो मणिः ।
तम् आभरद् बृहस्पतिः
कश्यपो वीर्याय कम् ॥

०२ बृहस्पतिस् तम् अकृणोन्

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पतिस् तम् अकृणोन्
मणिं वैश्वानरं सहः ।
सप्तर्षयो बलाय कं
सं दधुष् ट्वा वयोधसः ॥

०३ विश्वे देवास् त

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवास् त इन्द्रियं
सप्तर्षयश् च सं दधुः ।
जातो हिरण्ययो मणिर्
अग्नेर् वैश्वानराद् अधि ॥

०४ अश्वत्थो जातः प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वत्थो जातः प्रथमो
ऽग्नेः प्रियतमा तनूः ।
वैश्वानरस्य सृष्ट्या
कृत्यादूषिः कृतो मणिः ॥

०५ कृत्यादूषिं त्वाविदं कृत्यादूषिम्

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्यादूषिं त्वाविदं
कृत्यादूषिं भरामि त्वा ।
कृत्यादूषिं कृणोमि त्वा
कृत्यादूषिं वयोधसम् ॥

०६ पतत्री पक्षी बलवान्

विश्वास-प्रस्तुतिः ...{Loading}...

पतत्री पक्षी बलवान्
कृत्यादूषिः सपत्नहा ।
नितत्निर् विश्वभेषज
उग्र आपतिको मणिः ॥

०७ पतत्री ते बलाय

विश्वास-प्रस्तुतिः ...{Loading}...

पतत्री ते बलाय कं
नितत्निर् भेषजाय ते ।
जातो हिरण्ययो मणिर्
अप रक्षांसि सेधतु ॥

०८ देवो मणिः सपत्नहा

विश्वास-प्रस्तुतिः ...{Loading}...

देवो मणिः सपत्नहा
रक्षोहामीवचातनः ।
हिरण्ययोनिर् अंशुमान्
कश्यपेनाभृतं सहः ॥

०९ वैश्वानरं तेजनम् एकम्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरं तेजनम् एकम् आहुर्
अग्नेर् योनेः सह चन्द्रेण जातम् ।
गयस्फानः प्रतरणो वयोधाः
कृत्यादूषिर् वलगहास्य् उग्रः ॥

१० यस्येदं भूम्याम् अधि

विश्वास-प्रस्तुतिः ...{Loading}...

यस्येदं भूम्याम् अधि
निक्रान्तं पांसुरे पदम् ।
मृजानस् तन्वो यद् रपस्
तस्य स्नाहि तनू अधि ॥

११ दूष्यास् त्वा वधम्

विश्वास-प्रस्तुतिः ...{Loading}...

दूष्यास् त्वा वधं वयं
देवस्य सवितुः सवे ।
जीवातवे भरामसि
मह्या अरिष्टतातये ॥

१२ आच्छेदनः प्रच्छेदनो द्विषतस्

विश्वास-प्रस्तुतिः ...{Loading}...

आच्छेदनः प्रच्छेदनो
द्विषतस् तपनो मणिः ।
शत्रुञ्जयः सपत्नहा
द्विषन्तम् अप बाधताम् ॥