००४

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रस्य बाहू स्थविरौ

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य बाहू स्थविरौ वृषाणौ
चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्ष्ये प्रथमौ योग आगते
याभ्यां जितम् असुराणां स्वर् यत् ॥

०२ आशुः शिशानो वृषभो

विश्वास-प्रस्तुतिः ...{Loading}...

आशुः शिशानो वृषभो न भीमो
घनाघनः क्षोभणश् चर्षणीनाम् ।
संक्रन्दनो ऽनिमिष एकवीरः
शतं सेना जयतु साकम् इन्द्रः ॥

०३ सङ्क्रन्दनेनानिमिषेण जिष्णुना अयोध्येन

विश्वास-प्रस्तुतिः ...{Loading}...

संक्रन्दनेनानिमिषेण जिष्णुना-
-अयोध्येन दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं
युधो नर इषुहस्तेन वृष्णा ॥

०४ स इषुहस्तैः स

विश्वास-प्रस्तुतिः ...{Loading}...

स इषुहस्तैः स निषङ्गिभिर् वशी
संस्रष्टा युध इन्द्रो गणेन ।
संसृष्टजित् सोमपा बाहुशर्ध्य्
ऊर्ध्वधन्वा प्रतिहिताभिर् अस्तात् ॥ प्रपाठक ॥

०५ बलविज्ञायः स्थविरः प्रवीरः

विश्वास-प्रस्तुतिः ...{Loading}...

बलविज्ञायः स्थविरः प्रवीरः
सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्
जैत्रायेन्द्र रथम् आ तिष्ठ गोविदम् ॥

०६ इमं वीरम् अनु

विश्वास-प्रस्तुतिः ...{Loading}...

इमं वीरम् अनु हर्षध्वम् उग्रम्
इन्द्रं सत्वानो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं
जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥

०७ अभि गोत्राणि सहसा

विश्वास-प्रस्तुतिः ...{Loading}...

अभि गोत्राणि सहसा गाहमानो
अदाय उग्रः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयोध्यो
अस्माकं सेना अवतु प्र युत्सु ॥

०८ बृहस्पते परि दीया

विश्वास-प्रस्तुतिः ...{Loading}...

बृहस्पते परि दीया रथेन
रक्षोहामित्राꣳ अपबाधमानः ।
प्रभञ्जञ् छत्रून् प्रमृणन्न् अमित्रान्
अस्माकम् एध्य् अविता तनूनाम् ॥

०९ इन्द्र आसां नेता

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र आसां नेता बृहस्पतिर्
दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां
जयन्तीनां मरुतो यन्तु मध्ये ॥

१० इन्द्रस्य वृष्णो वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य वृष्णो वरुणस्य राज्ञ
आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां
घोषो देवानां जयताम् उद् अस्थात् ॥

११ अस्माकम् इन्द्रः समृतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

अस्माकम् इन्द्रः समृतेषु ध्वजेष्व्
अस्माकं या इषवस् ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्व्
अस्मान् देवासो ऽवता हवेषु ॥