००२

सर्वाष् टीकाः ...{Loading}...

०१ ओक्ते मे द्यावा

विश्वास-प्रस्तुतिः ...{Loading}...

ओक्ते मे द्यावा पृथिवी
ओक्ता देवी सरस्वती ।
ओक्तौ म इन्द्रश् चाग्निश् च
क्रिमिं जम्भयताम् इमम् ॥

०२ अस्येन्द्र कुमारस्य क्रिमिम्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्येन्द्र कुमारस्य
क्रिमिं धनपते जहि ।
हता विश्वा अरातयो
ऽनेन वचसा मम ॥

०३ यो +ऽक्ष्यौ परिसर्पति

विश्वास-प्रस्तुतिः ...{Loading}...

यो +ऽक्ष्यौ परिसर्पति
यो नासे परिसर्पति ।
दतां यो मध्यं गच्छति
तं क्रिमिं जम्भयामसि ॥

०४ विरूपौ द्वौ सरूपौ

विश्वास-प्रस्तुतिः ...{Loading}...

विरूपौ द्वौ सरूपौ द्वौ
कृष्णौ द्वौ रोहितौ द्वौ ।
बभ्रुश् च बभ्रुकर्णश् च
गृध्राः कोकाश् च ते हताः ॥

०५ ये क्रिमयः शितिकक्षा

विश्वास-प्रस्तुतिः ...{Loading}...

ये क्रिमयः शितिकक्षा
ये कृष्णाः शितिबाहवः ।
ये के च विश्वरूपास्
तान् क्रिमीञ् जम्भयामसि ॥

०६ यो द्विशीर्षा चतुरक्षः

विश्वास-प्रस्तुतिः ...{Loading}...

यो द्विशीर्षा चतुरक्षः
क्रिमिः सारङ्गो अर्जुनः ।
शृणाम्य् अस्य पृष्टीर्
अपि वृश्चामि यच् छिरः ॥

०७ उद् असौ सूर्यो

विश्वास-प्रस्तुतिः ...{Loading}...

उद् असौ सूर्यो अगाद्
विश्वदृष्टो अदृष्टहा ।
दृष्टांश् च घ्नन्न् अदृष्टांश् च
सर्वांश् च प्रमृणन् क्रिमीन् ॥

०८ येवाषासः कष्कषासो ध्रूक्ष्णासः

विश्वास-प्रस्तुतिः ...{Loading}...

येवाषासः कष्कषासो
ध्रूक्ष्णासः शिपवित्नवः ।
दृष्टश् च हन्यतां क्रिमिर्
अदृष्टश् चोत हन्यताम् ॥

०९ हतो येवाषो हतः

विश्वास-प्रस्तुतिः ...{Loading}...

हतो येवाषो हतः शिपविर्
हतो गङ्गणिवाँ उत ।
हता विश्वा अरातय
उग्रेण वचसा मम ॥

१० सर्वेषां च क्रिमीणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वेषां च क्रिमीणां
सर्वासां च क्रिमीणाम् ।
भिनद्म्य् अश्मना शिरो
दहाम्य् अग्निना मुखम् ॥