००१

सर्वाष् टीकाः ...{Loading}...

०१ सुपर्णस् त्वान्वविन्दत् सूकरस्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णस् त्वान्वविन्दत्
सूकरस् त्वाखनन् नसा ।
दिप्सौषधे त्वं दिप्सन्तं
प्रति कृत्याकृतो दह ॥

०२ प्रति दह यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति दह यातुधानान्
प्रति कृत्याकृतो दह ।
अथो यो अस्मान् दिप्सति
तम् उ त्वं जह्य् ओषधे ॥

०३ अग्ने पृतनाषाट् पृतनाः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने पृतनाषाट् पृतनाः सहस्व ।
प्रति कृत्यां कृत्याकृते
प्रतिहरणेन हरामसि ॥

०४ इष्वा ऋजीयः पततु

विश्वास-प्रस्तुतिः ...{Loading}...

इष्वा ऋजीयः पततु
द्यावापृथिवी तत् सुतात् ।
तत् तं मृग इव विध्यतु
कृत्या कृत्याकृतं कृता ॥

०५ अघम् अस्त्व् अघकृते

विश्वास-प्रस्तुतिः ...{Loading}...

अघम् अस्त्व् अघकृते
शपथाः शपथीव्ने ।
प्रत्यक् प्रति प्र हिण्मसि
यश् चकार तम् ऋच्छतु ॥

०६ यस् त्वा कृत्य

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा कृत्य इत्य् एका ॥

०७ पुनः कृत्यां कृत्याकृते

विश्वास-प्रस्तुतिः ...{Loading}...

पुनः कृत्यां कृत्याकृते
हस्तगृह्य परा णय ।
समक्षम् अस्मा आ दध्मो
यथा कृत्याकृतं हनत् ॥

०८ पुत्र इव पितरम्

विश्वास-प्रस्तुतिः ...{Loading}...

पुत्र इव पितरं गच्छ
स्वज इवाभिष्ठितो दश ।
तन्तुर् इवावव्ययन्न् इहि
कृत्ये कृत्याकृतं कृता ॥

०९ उद् एणीव वारिण्य्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् एणीव वारिण्य्
अभिस्कन्दं मृगीव ।
कृत्या कर्तारम् ऋच्छतु ॥

१० ऋश्यस्येव परीशासं परिमाय

विश्वास-प्रस्तुतिः ...{Loading}...

ऋश्यस्येव परीशासं
परिमाय परि त्वचः ।
दुर्हार्दे चक्रुषे कृत्यां
ग्रीवासु प्रति मुञ्चत ॥

११ या कृत्ये देवकृता

विश्वास-प्रस्तुतिः ...{Loading}...

या कृत्ये देवकृता
या वा मनुष्यजा असि ।
तां त्वा प्रति प्र हिण्मसि
प्रतीचीनेन ब्रह्मणा ॥

१२ यदि स्त्री यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदि स्त्री यदि वा पुमान्
कृत्यां चकार पाप्मने ।
ताम् उ तस्मै नयामस्य्
अश्वम् इवाश्वाभिधान्या ॥