०२३

सर्वाष् टीकाः ...{Loading}...

०१ निर् णुदैनां प्र

विश्वास-प्रस्तुतिः ...{Loading}...

निर् णुदैनां प्र णुदैनां
स्वान् निपदनाद् अधि ।
विभ्रंशम् अस्यै कृण्मो
वि गृहैर् भ्रंशताम् असौ ॥

०२ अपाञ्चं पतिम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

अपाञ्चं पतिम् आ कुर्व्
अधराचीं स्त्रियं नय ।
अतीमान् दश पर्वतान्
अतीमा नाव्या दश ॥

०३ अधराचीम् अवाचीम् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

अधराचीम् अवाचीम्
अथो अकुशलां दिशम् ।
विभ्रंशम् अस्यै कृण्मस्
तेनैनां प्र दहामसि ॥

०४ आज निर् अज

विश्वास-प्रस्तुतिः ...{Loading}...

आज निर् अज बिलं
बिलाद् अरण्यम् आ कुर्व्
अरण्याद् अरणं जनम् ।
मृगाꣳ अनु प्र पातय
वातस्यैनां शिखां कुरु ॥

०५ वाताग्रे अस्या हृदयम्

विश्वास-प्रस्तुतिः ...{Loading}...

वाताग्रे अस्या हृदयं
मनो रेष्मणि दध्मसि ।
विभ्रंशम् अस्यै कृण्मो
विध्वंशम् आसक्तं दमे ॥

०६ सर्वम् अनु परि

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वम् अनु परि प्लवताम्
अन्तरा द्यावापृथिवी उभे ।
यथानवधृता चराद्
वृषतूलम् इवोपरि ॥

०७ अशम् अस्यै वातो

विश्वास-प्रस्तुतिः ...{Loading}...

अशम् अस्यै वातो वात्व्
अशं तपतु सूर्यः ।
अथो यद् अन्नम् अश्नाति
तद् अस्यै विषवत्तरम् ॥

०८ सिंहस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

सिंहस् ते अस्तु चक्षुष इत्य् एका ॥

०९ एष वाम् अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

एष वाम् अग्निर् अन्तरा
स विष्वञ्चौ व्य् अस्यतु ।
यथा वां न सहासत्य्
उत्तरस्मिंश् चनायुषि ॥

१० उत् पातय शिमिदावति

विश्वास-प्रस्तुतिः ...{Loading}...

उत् पातय शिमिदावति
प्र पातय शिमिदावति ।
इमौ व्य् अस्य दम्पती
पक्वं मांसम् इवासिना ॥

११ मेयम् अस्मिन् पतौ

विश्वास-प्रस्तुतिः ...{Loading}...

मेयम् अस्मिन् पतौ रंस्त
मो अस्मिञ् छयने स्वे ।
जहातु वसनं स्वम्
अहिर् जीर्णाम् इव त्वचम् ॥

१२ यथा मृताश् च

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मृताश् च जीवाश् च-
-अस्मिंल् लोके व्योकसः ।
एवेमौ दम्पती स्ताम्
अस्मिंल् लोके व्योकसौ ॥