०२२

सर्वाष् टीकाः ...{Loading}...

०१ ब्रह्मास्य शिरो बृहद्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मास्य शिरो बृहद् अस्य पृष्ठं
वामदेव्यम् उदरम् ओदनस्य ।
छन्दांसि पक्षौ मुखम् अस्य सत्यं
विष्टारी यज्ञस् तपसो ऽधि जातः ॥

०२ अनस्थाः शुद्धाः पवनेन

विश्वास-प्रस्तुतिः ...{Loading}...

अनस्थाः शुद्धाः पवनेन पूताः
शुचयः शुचीन् अपि यन्ति लोकान् ।
विष्टारिणम् ओदनं ये पचन्ति
नैषां शिश्नं प्र दहति जातवेदाः ॥

०३ नैषां शिश्नं प्र

विश्वास-प्रस्तुतिः ...{Loading}...

नैषां शिश्नं प्र दहति जातवेदाः
स्वर्गे लोके बहु स्त्रैणम् एषाम् ।
नैनान् यमः परि मुष्णाति रेतः ॥

०४ आस्ते यम उप

विश्वास-प्रस्तुतिः ...{Loading}...

आस्ते यम उप याति देवान्
सं गन्धर्वैर् मदति सोम्यैः ।
विष्टारिणम् ओदनं ये पचन्ति
नैनान् अवर्तिः सचते कुतश् चन ॥

०५ रथी ह भूत्वा

विश्वास-प्रस्तुतिः ...{Loading}...

रथी ह भूत्वा रथयान ईयते
पक्षी ह भूत्वापि दिवं सम् एति ।
एष यज्ञो विततो वहिष्ठो
विष्टारी पक्वो दिवम् आ ससाद ॥

०६ चतुरः कुम्भांश् चतुर्धा

विश्वास-प्रस्तुतिः ...{Loading}...

चतुरः कुम्भांश् चतुर्धा ददाति
क्षीरेण पूर्णान् उदकेन दध्ना ।
एतास् त्वा कुल्या उप यन्तु विश्वतः
स्वर्गे लोके स्वधया पिन्वमानाः ॥

०७ घृतह्रदा मधुकूलाः सुरोदकाः

विश्वास-प्रस्तुतिः ...{Loading}...

घृतह्रदा मधुकूलाः सुरोदकाः
क्षीरेण पूर्णा उदकेन दध्ना ।
एतास् त्वा कुल्या उप यन्तु विश्वहा
स्वर्गे लोके स्वधया मादयन्तीः ॥

०८ पुण्डरीकं कुमुदं सम्

विश्वास-प्रस्तुतिः ...{Loading}...

पुण्डरीकं कुमुदं सं तनोति
बिसं शालूकं शफको मुलाली ।
स्वर्गे लोके स्वधया पिन्वमाना
उप मा तिष्ठन्तु पुष्करिणीः समक्ताः ॥

०९ यम् ओदनं पचामि

विश्वास-प्रस्तुतिः ...{Loading}...

यम् ओदनं पचामि श्रद्दधानो
विष्टारिणं लोकजितं स्वर्गम् ।
स मे मा क्षेष्ट सदम् अश्यमानो
विश्वरूपा कामदुघा धेनुर् अस्तु मे ॥

१० वृषभं सन्तं सह

विश्वास-प्रस्तुतिः ...{Loading}...

वृषभं सन्तं सह सूनृतया
स्वर्गे लोके अमृतं दुहानम् ।
ये मे पुत्राः पितरश् च सन्ति
ते त्वा विष्टारिन्न् उप सर्वे सदेयुः ॥

११ य इमान् यज्ञान्

विश्वास-प्रस्तुतिः ...{Loading}...

य इमान् यज्ञान् अभि वितष्टार
यस्येमे लोकाः स्वधया समक्ताः ।
ये मे पौत्रा उत ये पितामहास्
तेभ्यो विष्टारिन्न् अमृतानि धुक्ष्व ॥

१२ यदि पृथिवीं यद्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि पृथिवीं यद्य् अन्तरिक्षं
यदि दिवं देवता वा जगन्थ ।
ये मे प्रपौत्राः प्रपितामहाश् च
ते त्वा विष्टारिन्न् अनु प्र ज्ञेषुर् अत्र ॥

१३ स्वर्गे लोके अप्सरस

विश्वास-प्रस्तुतिः ...{Loading}...

स्वर्गे लोके अप्सरस एनाञ्
जाया भूत्वोप शेरते ।
विष्टारिणम् ओदनं ये पचन्त्य्
अस्मिंल् लोके दक्षिणया परिष्कृतम् ॥