०२१

सर्वाष् टीकाः ...{Loading}...

०१ अथो यानि च

विश्वास-प्रस्तुतिः ...{Loading}...

अथो यानि च वस्महे
यानि चान्तः परीणहि ।
तानि ते परि दद्मसि ॥

०२ रात्रि मातर् उषसे

विश्वास-प्रस्तुतिः ...{Loading}...

रात्रि मातर् उषसे नः परि देहि ।
उषा नो अह्ने परि ददात्व्
अहस् तुभ्यं विभावरि ॥

०३ यत् किं चेदम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् किं चेदं पतयति
यत् किं चेदं सरीसृपम् ।
यत् किं च पद्वद् आसन्वत्
तस्मात् त्वं रात्रि पाहि नः ॥

०४ सा पश्चात् पाहि

विश्वास-प्रस्तुतिः ...{Loading}...

सा पश्चात् पाहि सा पुरः
सोत्तराद् अधराद् उत ।
गोपाय नो विभावरि
स्तोतारस् त इह स्मसि ॥

०५ ये रात्रिम् अनुतिष्ठन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

ये रात्रिम् अनुतिष्ठन्ति
ये च भूतेषु जाग्रति ।
पशून् ये सर्वान् रक्षन्ति
ते न आत्मसु जाग्रतु
ते नः पशुषु जाग्रतु ॥

०६ वेद वै रात्रि

विश्वास-प्रस्तुतिः ...{Loading}...

वेद वै रात्रि ते नाम
घृताची नाम वा असि ।
तां त्वा भरद्वाजो वेद
सा नो वित्ते ऽधि जागृहि ॥