०२०

सर्वाष् टीकाः ...{Loading}...

०१ आ रात्रि पार्थिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

आ रात्रि पार्थिवं रजः
पितुर् अप्रायि धामभिः ।
दिवः सदांसि बृहती वि तिष्ठस
आ त्वेषं वर्तते तमः ॥

०२ न यस्याः पारम्

विश्वास-प्रस्तुतिः ...{Loading}...

न यस्याः पारं ददृशे न योयुवद्
विश्वम् अस्यां नि विशते यद् एजति ।
अरिष्टासस् त उर्वि तमस्वति
रात्रि पारम् अशीमहि
भद्रे पारम् अशीमहि ॥

०३ ये ते रात्रि

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते रात्रि नृचक्षसो
द्रष्टारो नवतिर् नव ।
अशीतिः सन्त्य् अष्टा
उतो ते सप्त सप्ततिः ॥

०४ षष्टिश् च षट्

विश्वास-प्रस्तुतिः ...{Loading}...

षष्टिश् च षट् च रेवति
पञ्चाशत् पञ्च सुम्नयि ।
चत्वारश् चत्वारिंशच् च
त्रयस् त्रिंशच् च वाजिनि ॥

०५ द्वा च विंशतिश्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वा च विंशतिश् च ते
रात्र्य् एकादशावमाः ।
तेभिर् नो ऽद्य पायुभिर्
नि पाहि दुहितर् दिवः ॥

०६ रक्षा माकिर् णो

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षा माकिर् णो अघशंस ईशत
मा नो दुःशंस ईशत ॥

०७ मा नो अद्य

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो अद्य गवां स्तेनो
मावीनां वृक ईशत ।
माश्वानां भद्रे तस्करो
मा नृणां यातुधान्यः ॥

०८ परमेभिः पथिभि स्तेनो

विश्वास-प्रस्तुतिः ...{Loading}...

परमेभिः पथिभि
स्तेनो धावतु तस्करः ।
परेण दत्वती रज्जुः
परेणाघायुर् अर्षतु ॥

०९ अन्धं रात्रि तिष्ठधूमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्धं रात्रि तिष्ठधूमम्
अशीर्षाणम् अहिं कृणु ।
हनू वृकस्य जम्भय-
-आ स्तेनं द्रुपदे जहि ॥

१० त्वयि रात्रि वसामसि

विश्वास-प्रस्तुतिः ...{Loading}...

त्वयि रात्रि वसामसि
स्वपिष्यामसि जागृहि ।
गोभ्यो नः शर्म यच्छ-
-अश्वेभ्यः पुरुषेभ्यः ॥