०१६

सर्वाष् टीकाः ...{Loading}...

०१ पितुं नु स्तोषम्

विश्वास-प्रस्तुतिः ...{Loading}...

पितुं नु स्तोषं
महो धर्माणं तविषीम् ।
यस्य त्रितो व्य् ओजसा
वृत्रं विपर्वम् अर्दयत् ॥

०२ स्वादो पितो मधो

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादो पितो मधो पितो
वयं त्वा ववृमहे ।
अस्माकम् अविता भव ॥

०३ उप नः पितव्

विश्वास-प्रस्तुतिः ...{Loading}...

उप नः पितव् आ गहि
शिवः शिवाभिर् ऊतिभिः ।
मयोभूर् अद्विषेण्यः
सखा सुशेव एधि नः ॥

०४ तव त्ये पितो

विश्वास-प्रस्तुतिः ...{Loading}...

तव त्ये पितो रसा
रजांस्य् अनु विष्ठिताः ।
दिवि वाता इव श्रिताः ॥

०५ तव त्ये पितो

विश्वास-प्रस्तुतिः ...{Loading}...

तव त्ये पितो ददतस्
तव स्वादिष्ठ ते पितो ।
प्र स्वाद्मानो रसानां
तुविग्रीवा इवेरते ॥

०६ त्वे पितो महानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे पितो महानां
देवानां मनो हितम् ।
अकारि चारु केतुना
तवाहिम् अवसावधीत् ॥

०७ यद् अदः पितो

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अदः पितो अजगन्
विवस्व पर्वतानाम् ।
अत्रा चिन् नो मधो पितो
ऽरं भक्षाय गम्याः ॥

०८ यत् ते सोम

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते सोम गवाशिरो
यवाशिरो भजामहे ।
वातापे पीव इद् भव ॥

०९ यद् अपाम् ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अपाम् ओषधीनां
परिंशम् आरिशामहे (…) ॥

१० करम्भ ओषधे भव

विश्वास-प्रस्तुतिः ...{Loading}...

करम्भ ओषधे भव
पीवो वृक्क उदारथिः ।
वातापे पीव इद् भव ॥

११ तं त्वा वयम्

विश्वास-प्रस्तुतिः ...{Loading}...

तं त्वा वयं पितो वचोभिर्
गावो न हव्या सुषूदिम ।
अस्मभ्यं त्वा सधमादं
देवेभ्यस् त्वा सधमादम् ॥