०१४

सर्वाष् टीकाः ...{Loading}...

०१ महाकण्ठं करीषजम् ऊबध्यादम्

विश्वास-प्रस्तुतिः ...{Loading}...

महाकण्ठं करीषजम्
ऊबध्यादम् अनाहुतिम् ।
ओष्ठः कोकमुखश् च यस्
तान् इतो नाशयामसि ॥

०२ रामदन्तम् अवदलं प्रहालम्

विश्वास-प्रस्तुतिः ...{Loading}...

रामदन्तम् अवदलं
प्रहालम् अहिनासिकम् ।
उपवर्तं बलाहकं
खेलं गर्दभनादिनं
गृध्रं हस्त्यायनं
तान् (…) ॥

०३ प्रमृश्यादिनम् अभ्यमं भीमहस्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रमृश्यादिनम् अभ्यमं
भीमहस्तं मरीमृशम् ।
त्रस्ताक्षं मृद्वङ्गुलिं
नखोग्रं दन्तवीर्यं
तान् (…) ॥

०४ पर्यन्यम् अभिपापदं जिगीषमाणम्

विश्वास-प्रस्तुतिः ...{Loading}...

पर्यन्यम् अभिपापदं
जिगीषमाणं रूपकम् ।
अथो शलल्यं शेवलं
तान् (…) ॥

०५ तण्डम् अग्रेतुण्डिकम् अलिंशम्

विश्वास-प्रस्तुतिः ...{Loading}...

तण्डम् अग्रेतुण्डिकम्
अलिंशम् उत वत्सपम् ।
दामग्रन्थिं सनिस्रसम्
अरण्येयं चार्म्येयं
तान् (…) ॥

०६ इदं यज् जानुकेशवम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं यज् जानुकेशवं
रक्षश् चरत्य् आसुरं
बहिः प्रयुतम् इच्छति ।
अंसून् पांस्यूंश् च केश्यान्
अरायाञ् छ्वकिष्किणस्
तान् इतो नाशयामसि ॥

०७ यः कुमाराञ् जनस्यात्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यः कुमाराञ् जनस्यात्ति
तरुणान् दास आसुरः ।
अरायः केश्य् अघलो
यो जनान् हन्त्य् अत्ति च
तम् इतो नाशयामसि ॥

०८ हिराक्षो नाम गेह्यो

विश्वास-प्रस्तुतिः ...{Loading}...

हिराक्षो नाम गेह्यो
ऽरायो नाम सूर्तहा ।
तम् इतो नाशयामसि ॥

०९ वितूलं भस्वम् आखिदम्

विश्वास-प्रस्तुतिः ...{Loading}...

वितूलं भस्वम् आखिदं
वनक्रोशं च रोरुहम् ।
आमादं प्रयुतैषणं
पर्युन्दानं परिद्रवं
वृकस्य न्यञ्चं गङ्गणं
तान् इतो नाशयामसि ॥