०१२

सर्वाष् टीकाः ...{Loading}...

०१ आयुष्कृतायुष्मती स्वधावन्तौ गोपा

विश्वास-प्रस्तुतिः ...{Loading}...

आयुष्कृतायुष्मती स्वधावन्तौ
गोपा मे स्थो गोपायतं मा ।
आत्मसदौ मे स्तं तन्वे सुशेवौ
मा मा हिंसिष्टं स्वाहा ॥

०२ इन्द्रस्य गृहो ऽसीन्द्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथम् असि ।
तं त्वा प्र विशामि सर्वाङ्गः सर्वात्मा सर्वगुः सर्वपूरुषः सह यन् मे ऽस्ति तेन ॥

०३ अस्तृतो नामाहम् अयम्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्तृतो नामाहम् अयम् अस्मि
स आत्मानं परि दधे द्यावापृथिवीभ्याम् ।
गोपीथाय प्र हूयसे ॥

०४ अस्तृतो नाम प्राजापत्यो

विश्वास-प्रस्तुतिः ...{Loading}...

अस्तृतो नाम प्राजापत्यो
देवो मासस् त्रयोदशः ।
सर्वगुः सर्वपूरुषः
प्रागां देवपुरा अहम् ॥

०५ अन्तः प्रागां देवपुराः

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तः प्रागां देवपुराः
सहग्रामः स्वस्तये ।
संवत्सरस्य मध्यतः
सर्वैः सोदर्यैः सह ॥ प्रपाठक ॥

०६ प्राहम् अगां देवपुरा

विश्वास-प्रस्तुतिः ...{Loading}...

प्राहम् अगां देवपुरा
य एवास्मि स एव सन् ।
यो मा कश् चाभिदासति
स प्रजापतिम् ऋच्छतु ॥

०७ अश्मासि प्रतिस्पशः पाहि

विश्वास-प्रस्तुतिः ...{Loading}...

अश्मासि प्रतिस्पशः
पाहि रिषः पाहि द्विषः ।
पाहि दैव्याभिशस्त्याः
स म इह तन्वं पाहि ॥

०८ यो ऽस्मान् प्राच्या

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽस्मान् प्राच्या दिशो ऽघायुर् अभिदासात् ।
एतत् स ऋच्छाद् अश्मवर्म नो ऽस्तु ॥

०९ अस्मान् दक्षिणाया दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अस्मान् दक्षिणाया दिशः (…) ॥

१० अस्मान् प्रतीच्या दिशः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) अस्मान् प्रतीच्या दिशः (…) ॥