०११

सर्वाष् टीकाः ...{Loading}...

०१ ब्रह्म जज्ञानम् इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म जज्ञानम् इत्य् एका ॥

०२ अनाप्ता ये वः

विश्वास-प्रस्तुतिः ...{Loading}...

अनाप्ता ये वः प्रथमा
यानि कर्माणि चक्रिरे ।
वीरान् नो अत्र मा दभन्
तद् व एतत् पुरो दधे ॥

०३ प्रत्नान् मानात् परि

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्नान् मानात् परि ये संबभूवुः
श्लोकवन्तः सौमनसस्य वन्तवः ।
अपानक्षासो बधिरा अहासत-
-ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥

०४ सहस्रधारम् अभि ते

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रधारम् अभि ते सम् अस्वरन्
दिवो नाके मधुजिह्वा असश्चतः ।
तस्य स्पशो न नि मिषन्ति भूर्णयः
पदेपदे पाशिनः सन्तु सेतवे ॥

०५ पर्य् ऊ षु

विश्वास-प्रस्तुतिः ...{Loading}...

पर्य् ऊ षु प्र धन्वा वाजसातये
परि वृत्राणि सक्षणिः ।
दिवस् तद् अर्णवाँ अन्व् ईयसे
सनिस्रसो नामासि त्रयोदशो मासः ॥

०६ इन्द्रस्य गृहो ऽसीन्द्रस्य

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथम् असि ।
व्य् एतेनावैतेनापैतेनारात्सीर् असौ स्वाहा ॥

०७ तिग्मायुधौ तिग्महेती सुशेवाव्

विश्वास-प्रस्तुतिः ...{Loading}...

तिग्मायुधौ तिग्महेती सुशेवाव्
अग्नीषोमाव् इह सु मृडतं नः ।
मुमुक्तम् अस्मान् गृभीतान् अवद्याज्
जुषेथां यज्ञम् अमृतम् अस्मासु धत्तं स्वाहा ॥

०८ चक्षुषो हेते मनसो

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुषो हेते मनसो हेते ब्रह्मणो हेते मेन्यामेनिर् असि ।
अमेनयस् ते सन्तु ये ऽस्मान् अभ्यघायन्ति स्वाहा ॥

०९ यो ऽस्माञ् चक्षुषा

विश्वास-प्रस्तुतिः ...{Loading}...

यो ऽस्माञ् चक्षुषा मनसा
यश् च वाचाकूत्या चित्त्या ब्रह्मणाघायुर् अभिदासात् ।
तम् अग्ने त्वं मेन्यामेनिं कृणु स्वाहा ॥

१० उद् आयुर् उत्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् आयुर् उत् कृतम् उद् बलम् उन् मनीषोद् इन्द्रियं
नृम्णम् अस्मासु धेहि स्वाहा ॥