०१०

सर्वाष् टीकाः ...{Loading}...

०१ कर्की सुभाग ऋषभस्य

विश्वास-प्रस्तुतिः ...{Loading}...

कर्की सुभाग ऋषभस्य पत्नी
प्रजाकामा वशिनी वाशिता गौः ।
तां सहस्रम् एकमुखा ददाति
गर्भं दधानाम् ऋतुना चरन्तीम् ॥

०२ गर्भं दधाना पय

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भं दधाना पय इद् दुहाना
अग्निहोत्रं वैश्वदेवी दुहाना ।
गौर् णो मा हिंसीद् वरुणस्य पत्नी ॥

०३ कर्क्या योनिं सम्मनसो

विश्वास-प्रस्तुतिः ...{Loading}...

कर्क्या योनिं संमनसो ऽभि गावः
प्रजां धित्सन्तो वृषणश् चरन्ति ।
सा न ऐत्व् अदितिर् विश्वरूपा-
-अभि क्रन्दन्ति भुवनान्य् एनाम् ॥

०४ प्रजापतिनेषिताम् ऋत्वियावतीम् ऐनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिनेषिताम् ऋत्वियावतीम्
ऐनां प्रजाया ऋषभाः श्रयन्ते ।
वृषण्यन्तीं वृषणः सप्तनाम्नीं
हिंकृण्वन्तो अभि नुदन्तु वाशिताम् ॥

०५ सा प्रत्य् अदर्श्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सा प्रत्य् अदर्श्य् उषसा सुवर्णा
शुक्रां वसाना वरुणस्य निर्णिजम् ।
वैश्वदेवी स्वधाम् आभरन्ती
प्रजां दाता पुष्यतु गोपतिष् टे ॥

०६ स्वयंस्थावर्य् ऋषभाय तिष्ठसि

विश्वास-प्रस्तुतिः ...{Loading}...

स्वयंस्थावर्य् ऋषभाय तिष्ठसि
प्रतीची सोमं प्रति सूर्यम् अग्निम् ।
अहिंसन्ती वाशिते माम् उपेहि
पशून् दाता पुष्यतु गोपतिष् टे ॥

०७ वशी दाता भवतु

विश्वास-प्रस्तुतिः ...{Loading}...

वशी दाता भवतु वाशिताया
अग्नेर् भागम् उस्रियां यो ददाति ।
प्रियं धाम हृदयं सोम्यं मधु
वाजिनीं त्वा वाजिनो वाजयन्तु ॥

०८ यो वाशितायां गव्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वाशितायां गव्य् अन्तर् अग्निर्
यद् अस्यां नृम्णं महिमा बभूव ।
नमस् तस्मै प्रतिगृह्णन् कृणोमि
स्योना मे अस्तु तन्वे सुशेवा ॥

०९ एयम् अगन् वाशिता

विश्वास-प्रस्तुतिः ...{Loading}...

एयम् अगन् वाशिता तां प्रतीमः
पुंसां व्रातेन सह पुष्ट्या गौः ।
ऊर्जं दधाना घृतम् इद् दुहाना
सहस्रपोषाय मे अस्तु दात्रे ॥