००८

सर्वाष् टीकाः ...{Loading}...

०१ सहस्व यातुधानान् सहस्व

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्व यातुधानान्
सहस्व यातुधान्यः ।
सहस्व सर्वा रक्षांसि
सहमानास्य् ओषधे ॥

०२ सहमाने सहस्वति सहन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सहमाने सहस्वति
सहन्त्य् अहमुत्तरे ।
उताहम् अस्मि सासहिः
सासहे वः सदान्वाः ॥

०३ या सहमाना चरसि

विश्वास-प्रस्तुतिः ...{Loading}...

या सहमाना चरसि
सासहान इवर्षभः ।
सदान्वाघ्नी रक्षोघ्नी
सा त्वम् उग्रास्य् ओषधे ॥

०४ खेले है लम्बनस्तनि

विश्वास-प्रस्तुतिः ...{Loading}...

खेले है लम्बनस्तनि
नश्येतः प्रामुतः पत ।
न त्वाम् अविव्यचद् इह-
-उक्षेव शृङ्गवच् छिरः ॥

०५ असुवाने बहुपुत्रे अनन्तर्वे

विश्वास-प्रस्तुतिः ...{Loading}...

असुवाने बहुपुत्रे
अनन्तर्वे महोदरि ।
पथास्मत् सत्वरे त्वं
शर्करा बप्सती चर ॥

०६ ये ऽरायाश् चरथ

विश्वास-प्रस्तुतिः ...{Loading}...

ये ऽरायाश् चरथ
पाकस्येच्छन्त आसुतिम् ।
तान् अग्ने कृष्णवर्तने
तीक्ष्णशृङ्गोदृषन्न् इहि ॥

०७ अदो यद् दारु

विश्वास-प्रस्तुतिः ...{Loading}...

अदो यद् दारु प्लवते
सिन्धोर् मध्ये अपूरुषम् ।
तद् आ रभस्व दुर्हणो
तेन याहि परस्तरम् ॥

०८ यस्या जनित्रम् इष्टर्गा

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या जनित्रम् इष्टर्गा
अदृष्टाः क्रिमयः प्लुषयः ।
तस्यै बलासपत्न्यै
नमस् कृणोमि कुष्ठ्यै ॥

०९ शर्वपुत्रे भवपत्नि यातुभ्रात्रि

विश्वास-प्रस्तुतिः ...{Loading}...

शर्वपुत्रे भवपत्नि
यातुभ्रात्रि सदान्वे ।
तस्याद्धि पुत्रान् भ्रातॄंश् च
यत्र त्वा विनयामसि ॥