००४

सर्वाष् टीकाः ...{Loading}...

०१ रात्री माता नभः

विश्वास-प्रस्तुतिः ...{Loading}...

रात्री माता नभः पिता-
-अर्यमा ते पितामहः ।
शिलाची नाम वा असि
सा देवानाम् असि स्वसा ॥

०२ यस् त्वा पिबति

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा पिबति जीवति
त्रायसे पुरुषं त्वम् ।
धर्त्री च शश्वताम् असि
शश्वतां च न्यञ्चनी ॥

०३ यद् दण्डेन यद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् दण्डेन यद् इष्वा
यद् अरुर् हरसा कृतम् ।
तस्य त्वम् असि भेषजी
निष्कृतिर् नाम वा असि ॥

०४ भद्रा प्लक्षे नि

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रा प्लक्षे नि तिष्ठस्य्
अश्वत्थे खदिरे धवे ।
भद्रा न्यग्रोधे पर्णे
सा न एह्य् अरुन्धति ॥

०५ वृक्षंवृक्षम् आ रोहसि

विश्वास-प्रस्तुतिः ...{Loading}...

वृक्षंवृक्षम् आ रोहसि
वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती
संजया नाम वा असि ॥

०६ हिरण्यवर्णे युवते शुष्मे

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यवर्णे युवते
शुष्मे लोमशवक्षणे ।
अपाम् असि स्वसा लाक्षे
वातो हात्मा बभूव ते ॥

०७ हिरण्यबाहो सुभगे सूर्यवर्णे

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यबाहो सुभगे
सूर्यवर्णे वपुष्टमे ।
रुतं गच्छति निष्कृतिः
सेमं निष्कृधि पूरुषम् ॥

०८ घृताची नाम कानीनो

विश्वास-प्रस्तुतिः ...{Loading}...

घृताची नाम कानीनो
ऽजबभ्रु पिता तव ।
अश्वो यमस्य यः श्यावस्
तस्य हास्नास्य् उक्षिता ॥

०९ अश्वस्यास्नः सम्पतिता सा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वस्यास्नः संपतिता
सा पर्णम् अभि षिष्यदः ।
सरा पतत्रिण्य् असि
सा न एह्य् अरुन्धति ॥

१० घृताचिके वातरथे विद्युत्पर्णे

विश्वास-प्रस्तुतिः ...{Loading}...

घृताचिके वातरथे
विद्युत्पर्णे अरुन्धति ।
आतुरं गमिष्ठासि
त्वम् अङ्ग निष्करीयसी ॥

११ यत् ते जग्धम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते जग्धं पिशाचैस्
तत् त आ प्यायतां पुनः ।
लाक्षा त्वा विश्वभेषजी
देवेभिस् त्रायतां सह ॥