सर्वाष् टीकाः ...{Loading}...
०१ को वः पश्चात्
विश्वास-प्रस्तुतिः ...{Loading}...
को वः पश्चात् प्राविच्छायत्
कः पुरः प्राखनत् पथः ।
यदैत त्वरमाणा
वरुणप्रसूता आपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
को वः पश्चात् प्राविच्छायत्
कः पुरः प्राखनत् पथः ।
यदैत त्वरमाणा
वरुणप्रसूता आपः ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रजापतिर् असृजत स
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिर् असृजत
स पुरः प्राखनत् पथः ।
स उ नो अन्व् अवासृजत्
तेन सृष्टाः क्षरामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिर् असृजत
स पुरः प्राखनत् पथः ।
स उ नो अन्व् अवासृजत्
तेन सृष्टाः क्षरामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ पुनाना आपो बहुधा
विश्वास-प्रस्तुतिः ...{Loading}...
पुनाना आपो बहुधा स्रवन्ति-
-इमांश् च लोकान् प्रदिशश् च सर्वाः ।
पुनन्त्व् अस्मान् दुरिताद् अवद्यान्
मुञ्चन्तु मृत्योर् निरृतेर् उपस्थात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनाना आपो बहुधा स्रवन्ति-
-इमांश् च लोकान् प्रदिशश् च सर्वाः ।
पुनन्त्व् अस्मान् दुरिताद् अवद्यान्
मुञ्चन्तु मृत्योर् निरृतेर् उपस्थात् ॥
सर्वाष् टीकाः ...{Loading}...
०४ आपो अस्मान् मातरः
विश्वास-प्रस्तुतिः ...{Loading}...
आपो अस्मान् मातरः सूदयन्तु
घृतेन नो घृतपुवः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उद् इद् आभ्यः शुचिर् आ पूत एमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो अस्मान् मातरः सूदयन्तु
घृतेन नो घृतपुवः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उद् इद् आभ्यः शुचिर् आ पूत एमि ॥
सर्वाष् टीकाः ...{Loading}...
०५ आपो देवीर् मातरः
विश्वास-प्रस्तुतिः ...{Loading}...
आपो देवीर् मातरः सूदयिष्णवो
घृतश्चुतो मधुना सं पपृच्रे ।
ता अस्मभ्यं सूरयो विश्वम् आयुः
क्षप उस्रा वरिवस्यन्तु शुभ्राः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो देवीर् मातरः सूदयिष्णवो
घृतश्चुतो मधुना सं पपृच्रे ।
ता अस्मभ्यं सूरयो विश्वम् आयुः
क्षप उस्रा वरिवस्यन्तु शुभ्राः ॥
सर्वाष् टीकाः ...{Loading}...
०६ उदकस्योदकतमा रेवत्तमा रेवतीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदकस्योदकतमा
रेवत्तमा रेवतीनाम् ।
शुन्धन्ताम् आपः
शुन्धन्त्व् अस्मान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदकस्योदकतमा
रेवत्तमा रेवतीनाम् ।
शुन्धन्ताम् आपः
शुन्धन्त्व् अस्मान् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यूयम् आपो वीरश्रियो
विश्वास-प्रस्तुतिः ...{Loading}...
यूयम् आपो वीरश्रियो
यूयं सूदयथा शुचीन् ।
युष्माकम् इद् दिशो महीर्
ईयन्ते प्रदिशः पृथक् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यूयम् आपो वीरश्रियो
यूयं सूदयथा शुचीन् ।
युष्माकम् इद् दिशो महीर्
ईयन्ते प्रदिशः पृथक् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यूयं मित्रस्य वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यूयं मित्रस्य वरुणस्य योनिर्
यूयं सोमस्य धेनवो मधिष्ठाः ।
युष्मान् देवीर् देव आ क्षियतीन्दुर्
यूयं जिन्वत ब्रह्मक्षत्रम् आपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यूयं मित्रस्य वरुणस्य योनिर्
यूयं सोमस्य धेनवो मधिष्ठाः ।
युष्मान् देवीर् देव आ क्षियतीन्दुर्
यूयं जिन्वत ब्रह्मक्षत्रम् आपः ॥
सर्वाष् टीकाः ...{Loading}...
०९ शश्वद् आभिः शाशदानाः
विश्वास-प्रस्तुतिः ...{Loading}...
शश्वद् आभिः शाशदानाः
शमनान्वयामसि ।
आपो विश्वस्य सूदनीर्
या देवा मनवे दधुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शश्वद् आभिः शाशदानाः
शमनान्वयामसि ।
आपो विश्वस्य सूदनीर्
या देवा मनवे दधुः ॥
सर्वाष् टीकाः ...{Loading}...
१० यद् धावन्ति पुनते
विश्वास-प्रस्तुतिः ...{Loading}...
यद् धावन्ति पुनते तद् आपो
यत् तिष्ठन्ति शुद्धा इत् तद् भवन्ति ।
नासाम् अवद्यम् अविदं न रिप्रं
सनाद् एव मधुना सं पपृच्रे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् धावन्ति पुनते तद् आपो
यत् तिष्ठन्ति शुद्धा इत् तद् भवन्ति ।
नासाम् अवद्यम् अविदं न रिप्रं
सनाद् एव मधुना सं पपृच्रे ॥
सर्वाष् टीकाः ...{Loading}...
११ हिरण्यवर्णाः शुचयः पावकाः
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यवर्णाः शुचयः पावकाः
प्र चक्रमुर् हित्वावद्यम् आपः ।
शतं च वः प्रस्रवणेषु देवीः
सहस्रं च पवितारः पुनन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यवर्णाः शुचयः पावकाः
प्र चक्रमुर् हित्वावद्यम् आपः ।
शतं च वः प्रस्रवणेषु देवीः
सहस्रं च पवितारः पुनन्ति ॥
सर्वाष् टीकाः ...{Loading}...
१२ तास् तादृशीर् ब्रह्माणम्
विश्वास-प्रस्तुतिः ...{Loading}...
तास् तादृशीर् ब्रह्माणं सूदयन्त्य्
अङ्गोष्ठ्या स्तोत्र्या जीवधन्याः ।
या विश्वस्य शुचिकृतो अयातोर्
गाव इव पयसा स्था सुजाताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तास् तादृशीर् ब्रह्माणं सूदयन्त्य्
अङ्गोष्ठ्या स्तोत्र्या जीवधन्याः ।
या विश्वस्य शुचिकृतो अयातोर्
गाव इव पयसा स्था सुजाताः ॥
सर्वाष् टीकाः ...{Loading}...
१३ विश्वाद् रिप्रान् मुञ्चत
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वाद् रिप्रान् मुञ्चत सिन्धवो नो
यान्य् एनांसि चकृमा तनूभिः ।
इन्द्रप्रशिष्टा वरुणप्रसूता
आ सिञ्चतापो मध्व् आ समुद्रे ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वाद् रिप्रान् मुञ्चत सिन्धवो नो
यान्य् एनांसि चकृमा तनूभिः ।
इन्द्रप्रशिष्टा वरुणप्रसूता
आ सिञ्चतापो मध्व् आ समुद्रे ॥