सर्वाष् टीकाः ...{Loading}...
०१ ऋधङ्मन्द्रयोनिनोविभावा अमृतासुः सुजन्मा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋधङ्मन्द्रयोनिनोविभावा
अमृतासुः सुजन्मा वर्धमानः ।
अदब्धासुर् भ्राजमानो ऽहेव
त्रितो दाधार त्रीणि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋधङ्मन्द्रयोनिनोविभावा
अमृतासुः सुजन्मा वर्धमानः ।
अदब्धासुर् भ्राजमानो ऽहेव
त्रितो दाधार त्रीणि ॥
सर्वाष् टीकाः ...{Loading}...
०२ नि यो धर्मणि
विश्वास-प्रस्तुतिः ...{Loading}...
नि यो धर्मणि प्रथमः ससाद-
-अतो वपूंषि कृणुते पुरूणि ।
धास्युर् योनिं प्रथम आ विवेश-
-आ यो वाचम् अनुदितां चिकाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि यो धर्मणि प्रथमः ससाद-
-अतो वपूंषि कृणुते पुरूणि ।
धास्युर् योनिं प्रथम आ विवेश-
-आ यो वाचम् अनुदितां चिकाय ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस् ते शोकस्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते शोकस् तन्व आरिरेच
क्षरद् धिरण्यं शुचयो ऽनु स्वाः ।
अत्रा दधिषे अमृतानि नाम-
-अस्मे वस्त्राणीष एरयन्त ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते शोकस् तन्व आरिरेच
क्षरद् धिरण्यं शुचयो ऽनु स्वाः ।
अत्रा दधिषे अमृतानि नाम-
-अस्मे वस्त्राणीष एरयन्त ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्र यद् एते
विश्वास-प्रस्तुतिः ...{Loading}...
प्र यद् एते प्रतरं पूर्व्यं गुः
सदःसद आतिष्ठन्तो अजुर्यम् ।
कविः शुषस्य मातरा रिहाणे
जामिर्वधुर्युःप्रतिमानिमीत ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र यद् एते प्रतरं पूर्व्यं गुः
सदःसद आतिष्ठन्तो अजुर्यम् ।
कविः शुषस्य मातरा रिहाणे
जामिर्वधुर्युःप्रतिमानिमीत ॥
सर्वाष् टीकाः ...{Loading}...
०५ तद् ऊ षु
विश्वास-प्रस्तुतिः ...{Loading}...
तद् ऊ षु ते महा पृथुर्यमन्
नमः कविः काव्येनाकृणोत् ।
यत् सम्यञ्चो ऽभियन्तो *ऽधि क्षाम्
अधा मही रोधचक्रा ववर्ध ॥
मूलम् ...{Loading}...
मूलम् (GR)
तद् ऊ षु ते महा पृथुर्यमन्
नमः कविः काव्येनाकृणोत् ।
यत् सम्यञ्चो ऽभियन्तो *ऽधि क्षाम्
अधा मही रोधचक्रा ववर्ध ॥
सर्वाष् टीकाः ...{Loading}...
०६ सप्त मर्यादाः कवयस्
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त मर्यादाः कवयस् ततक्षुस्
तासाम् इद् एकाम् अभ्य् अंहुरो गात् ।
उतामृतासुर् वृत एषि कृण्वन्न्
असुर आप्तः स्वधया समद्गुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त मर्यादाः कवयस् ततक्षुस्
तासाम् इद् एकाम् अभ्य् अंहुरो गात् ।
उतामृतासुर् वृत एषि कृण्वन्न्
असुर आप्तः स्वधया समद्गुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ उतायुर् ज्येष्ठो रत्ना
विश्वास-प्रस्तुतिः ...{Loading}...
उतायुर् ज्येष्ठो रत्ना दधात्य्
ऊर्जा वा यं सचते कविर् दाः ।
पुत्रो वा यत् पितरा क्षत्रम् ईर्ते
ज्येष्ठं मर्यादम् अह्वयन् स्वस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतायुर् ज्येष्ठो रत्ना दधात्य्
ऊर्जा वा यं सचते कविर् दाः ।
पुत्रो वा यत् पितरा क्षत्रम् ईर्ते
ज्येष्ठं मर्यादम् अह्वयन् स्वस्ति ॥
सर्वाष् टीकाः ...{Loading}...
०८ दर्शन् नु तान्
विश्वास-प्रस्तुतिः ...{Loading}...
दर्शन् नु तान् वरुण ये त इष्टाव्
आवर्वृततः कृणवो वपूंषि ।
अर्धम् अर्धेन शवसा पृणक्ष्य्
अर्धेन शुष्मं वर्धसे *ऽमूर ॥
मूलम् ...{Loading}...
मूलम् (GR)
दर्शन् नु तान् वरुण ये त इष्टाव्
आवर्वृततः कृणवो वपूंषि ।
अर्धम् अर्धेन शवसा पृणक्ष्य्
अर्धेन शुष्मं वर्धसे *ऽमूर ॥
सर्वाष् टीकाः ...{Loading}...
०९ अवीवृधाम शग्म्यं सखायम्
विश्वास-प्रस्तुतिः ...{Loading}...
अवीवृधाम शग्म्यं सखायं
वरुणं पुत्रम् अदितेर् इषिरम् ।
कविशस्तान्य् अस्मै वचांस्य्
अवोचाम रोदसी सत्यवाचौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवीवृधाम शग्म्यं सखायं
वरुणं पुत्रम् अदितेर् इषिरम् ।
कविशस्तान्य् अस्मै वचांस्य्
अवोचाम रोदसी सत्यवाचौ ॥