००१

सर्वाष् टीकाः ...{Loading}...

०१ तद् इद् आस

विश्वास-प्रस्तुतिः ...{Loading}...

तद् इद् आस भुवनेषु ज्येष्ठं
यतो जज्ञ उग्रस् त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून्
अनु यं विश्वे मदन्त्य् ऊमाः ॥

०२ वावृधानः शवसा भूर्योजाः

विश्वास-प्रस्तुतिः ...{Loading}...

वावृधानः शवसा भूर्योजाः
शत्रुर् दासाय भियसं दधाति ।
अव्यनच् च व्यनच् च सस्नि
सं ते नवन्त प्रभृता मदेषु ॥

०३ त्वे क्रतुम् अपि

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे क्रतुम् अपि पृञ्चन्ति विश्वे
द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः ।
स्वादोः स्वादीयः स्वादुना सृजा सम्
अदः सु मधु मधुनाभि योधीः ॥

०४ इति चिद् धि

विश्वास-प्रस्तुतिः ...{Loading}...

इति चिद् धि त्वा धना जयन्तं
रणेरणे अनुमदन्ति विप्राः ।
ओजीयो धृष्णो स्थिरम् आ तनुष्व
मा त्वा दभन् दुरेवा यातुधानाः ॥

०५ त्वया वयं शाशद्महे

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया वयं शाशद्महे रणेषु
प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः
सं ते श्यामि ब्रह्मणा वयांसि ॥

०६ स्तुषेय्यं पुरुवर्पसम् ऋभ्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुषेय्यं पुरुवर्पसम् ऋभ्वम्
इनतमम् आप्त्यम् आप्त्यानाम् ।
आ दर्शते शवसा सप्त दानून्
प्र साक्षते प्रतिमानानि भूरि ॥

०७ नि तद् दधिषे

विश्वास-प्रस्तुतिः ...{Loading}...

नि तद् दधिषे ऽवरं परं च
यस्मिन्न् आविथावसा दुरोणे ।
आ मातरा स्थापयसे जिगत्नू
अत इनोषि कर्वरा पुरूणि ॥

०८ इमा ब्रह्म बृहद्दिवो

विश्वास-प्रस्तुतिः ...{Loading}...

इमा ब्रह्म बृहद्दिवो विवक्ति-
-इन्द्राय शूषम् अग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजो
दुरश् च विश्वा अवृणोद् अप स्वाः ॥

०९ एवा महान् बृहद्दिवो

विश्वास-प्रस्तुतिः ...{Loading}...

एवा महान् बृहद्दिवो अथर्वा-
-अवोचत् स्वां तन्वम् इन्द्रम् एव ।
स्वसारो मातरिभ्वरीर् अरिप्रा
हिन्वन्ति च शवसा वर्धयन्ति च ॥