०४०

सर्वाष् टीकाः ...{Loading}...

०१ देवस्य त्वा सवितुः

विश्वास-प्रस्तुतिः ...{Loading}...

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां
पूष्णो हस्ताभ्यां प्रसूतो ब्राह्मणेभ्यो निर् वपामि ।
स मे मा क्षेष्ट सदम् अश्यमानः
पितॄणां लोके ॥

०२ अनुमतं पृथिव्येमं पचाम्य्

विश्वास-प्रस्तुतिः ...{Loading}...

अनुमतं पृथिव्येमं पचाम्य्
अनु मे द्यौर् मन्यताम् अन्व् अन्तरिक्षम् ।
अनु मन्यताम् अदितिर्
देवपुत्रा इमे स्वर्गे लोके अस्तु ॥

०३ ब्रह्मणोखाम् अधि दधाम्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मणोखाम् अधि दधाम्य् अग्नौ
भूम्यां त्वा भूमिम् अधि धारयामि ।
अग्निः पचन् रक्षत्व् ओदनम् इमं
रक्षःपिशाचान् नुदतां जातवेदाः ॥

०४ अच्युतम् अक्षितं विश्वदानीम्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्युतम् अक्षितं विश्वदानीम्
उत्सम् इव सदम् अक्षीयमाणम् ।
पिता पितामह उत यस् तृतीयस्
त एनं भागम् उप जीवन्त्व् अत्र ॥

०५ प्रपीनम् अक्षितं विश्वदानीम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रपीनम् अक्षितं विश्वदानीं
सोमम् इव पुनर् आप्यायमानम् ।
पुत्रः पौत्र उत यः प्रपौत्रस्
तेषाम् अस्तु निहितो भाग एषः ॥

०६ मा मे जारीन्

विश्वास-प्रस्तुतिः ...{Loading}...

मा मे जारीन् निहितो भाग एष
मानुषन्मानुषद् गुप्तो अस्तु । (emend. Griffiths- mānuṣānmānuṣād ‘from each and every man’)
वैवस्वते नि दधे शेवधिम् एतं
तस्मा उत् सृजतु मह्यम् एव ॥

०७ पुनः पूर्यतां यद्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनः पूर्यतां यद् अदन्त्य् अस्य-
-ओदनो ऽयं तिष्ठत्व् अक्षितः सदा ।
वैवस्वतेन गुप्तो अस्तु राज्ञा
ममैतोर् उप जीवन्तु मे स्वाः ॥

०८ शतधारं सहस्रधारम् उत्सम्

विश्वास-प्रस्तुतिः ...{Loading}...

शतधारं सहस्रधारम् उत्सम्
अक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानम् अनपस्फुरन्तम्
उपासीय सुकृतां यत्र लोकः ॥