सर्वाष् टीकाः ...{Loading}...
०१ ये वारुणा उत
विश्वास-प्रस्तुतिः ...{Loading}...
ये वारुणा उत नैरृता
वनस्पतीनां वीरुधां च पाशाः ।
ये भौमा भूम्या अधि संबभूवुस्
ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये वारुणा उत नैरृता
वनस्पतीनां वीरुधां च पाशाः ।
ये भौमा भूम्या अधि संबभूवुस्
ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये अन्तरिक्षे दिवि
विश्वास-प्रस्तुतिः ...{Loading}...
ये अन्तरिक्षे दिवि ये च पाशा
अन्ने विचृत्ता बहुधा सिनन्ति ।
ये पशुभ्यो अधि संबभूवुस्
ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अन्तरिक्षे दिवि ये च पाशा
अन्ने विचृत्ता बहुधा सिनन्ति ।
ये पशुभ्यो अधि संबभूवुस्
ते त्वा न हिंसाञ् छिवतातिर् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०३ यं मानुषं मनुष्याः
विश्वास-प्रस्तुतिः ...{Loading}...
यं मानुषं मनुष्याः शपन्ते (Bhatt. yan)
यां वा होत्रां पित्र्याम् आरभन्ते ।
समाम्यो वरुणो य आजगाम
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं मानुषं मनुष्याः शपन्ते (Bhatt. yan)
यां वा होत्रां पित्र्याम् आरभन्ते ।
समाम्यो वरुणो य आजगाम
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपः प्रगाह्य यदि
विश्वास-प्रस्तुतिः ...{Loading}...
अपः प्रगाह्य यदि वा समामिषे
अग्निम् आरेभिषे यदि वा समिद्धम् ।
विद्वान् अविद्वान् अनृतं यद् उवक्थ
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥ (the refrain (4d, 5d, 6e, 7e) is written in K)
मूलम् ...{Loading}...
मूलम् (GR)
अपः प्रगाह्य यदि वा समामिषे
अग्निम् आरेभिषे यदि वा समिद्धम् ।
विद्वान् अविद्वान् अनृतं यद् उवक्थ
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥ (the refrain (4d, 5d, 6e, 7e) is written in K)
सर्वाष् टीकाः ...{Loading}...
०५ यत् प्रतीच्यां दृषत्पिष्टाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्रतीच्यां दृषत्पिष्टाꣳ
आमपेषाꣳ आमपात्रे पपाथ ।
हीनः सत्येनानृतं यद् उवक्थ
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्रतीच्यां दृषत्पिष्टाꣳ
आमपेषाꣳ आमपात्रे पपाथ ।
हीनः सत्येनानृतं यद् उवक्थ
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०६ यं बाणवन्तं सुदिहम्
विश्वास-प्रस्तुतिः ...{Loading}...
यं बाणवन्तं सुदिहं संभरन्ति
यं वा हस्तं ब्राह्मणस्यारभन्ते ।
समाम्यो वरुणो यं जघान
तस्य श्मशानाद् अधि लोष्ट आभृतः
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं बाणवन्तं सुदिहं संभरन्ति
यं वा हस्तं ब्राह्मणस्यारभन्ते ।
समाम्यो वरुणो यं जघान
तस्य श्मशानाद् अधि लोष्ट आभृतः
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०७ यं ग्रावाणम् आरभन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
यं ग्रावाणम् आरभन्ते
येनांशून् अभिषुण्वन्ति सोमम् ।
यद् वा धनं धनकामो निरेमिषे
क्षेत्रं गाम् अश्वं पुरुषं वोभयादत्
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं ग्रावाणम् आरभन्ते
येनांशून् अभिषुण्वन्ति सोमम् ।
यद् वा धनं धनकामो निरेमिषे
क्षेत्रं गाम् अश्वं पुरुषं वोभयादत्
तत् त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०८ अपः प्रगाह्य यदि
विश्वास-प्रस्तुतिः ...{Loading}...
अपः प्रगाह्य यदि वा व्यामिषे
अग्निम् आरेभिषे यदि वा समिद्धम् ।
जाम्या हस्तं कृतम् आरेभिषे (read gṛhyam instead of kṛtam?))
धनुर् वोत्ततम् इति चक्रमिथ ।
मन्यौ वा राज्ञो वरुणस्यासि सक्तः
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपः प्रगाह्य यदि वा व्यामिषे
अग्निम् आरेभिषे यदि वा समिद्धम् ।
जाम्या हस्तं कृतम् आरेभिषे (read gṛhyam instead of kṛtam?))
धनुर् वोत्ततम् इति चक्रमिथ ।
मन्यौ वा राज्ञो वरुणस्यासि सक्तः
स त्वा न हिंसाच् छिवतातिर् अस्तु ते ॥