सर्वाष् टीकाः ...{Loading}...
०१ अशं ते श्वश्रूर्
विश्वास-प्रस्तुतिः ...{Loading}...
अशं ते श्वश्रूर् वदतु
श्वशुरस् ते अशन्तरम् ।
देवा ते अभिशोचनं
ब्रह्म विद्वेषणं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अशं ते श्वश्रूर् वदतु
श्वशुरस् ते अशन्तरम् ।
देवा ते अभिशोचनं
ब्रह्म विद्वेषणं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ क्रन्दयोलुला कुरु
विश्वास-प्रस्तुतिः ...{Loading}...
आ क्रन्दयोलुला कुरु
वाचम् आ धेह्य् अप्रियाम् ।
शिरो लिप्सस्व हस्ताभ्यां
केशास् ते अभिशोचनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ क्रन्दयोलुला कुरु
वाचम् आ धेह्य् अप्रियाम् ।
शिरो लिप्सस्व हस्ताभ्यां
केशास् ते अभिशोचनम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये केशा यौ
विश्वास-प्रस्तुतिः ...{Loading}...
ये केशा यौ प्रतिधी
यत् कुरीरं य ओपशः ।
अथो ये ते स्वाः सन्ति
सर्वे ते ते ऽभिशोचनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये केशा यौ प्रतिधी
यत् कुरीरं य ओपशः ।
अथो ये ते स्वाः सन्ति
सर्वे ते ते ऽभिशोचनम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अप त्रस परिधानाद्
विश्वास-प्रस्तुतिः ...{Loading}...
अप त्रस परिधानाद्
उन्मादनं कृणोमि ते ।
अथो यत् ते स्वं वासः
सर्वं तत् ते ऽभिशोचनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप त्रस परिधानाद्
उन्मादनं कृणोमि ते ।
अथो यत् ते स्वं वासः
सर्वं तत् ते ऽभिशोचनम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अर्कम् अद्धि प्र
विश्वास-प्रस्तुतिः ...{Loading}...
अर्कम् अद्धि प्र पतातो
मुनिचक्षुं कृणोमि ते ।
अथो श्वभ्यो रायद्भ्यः
प्रति स्म गङ्गणं कुरु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्कम् अद्धि प्र पतातो
मुनिचक्षुं कृणोमि ते ।
अथो श्वभ्यो रायद्भ्यः
प्रति स्म गङ्गणं कुरु ॥
सर्वाष् टीकाः ...{Loading}...
०६ उत् तिष्ठारे पलायस्व
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तिष्ठारे पलायस्व
मरीचीनां पदं भव ।
अथो यत् कार्यं कुर्व्
आशां सम् ऋष मुष्कयोः ॥ (see Lubotsky 2002, 155-156)
मूलम् ...{Loading}...
मूलम् (GR)
उत् तिष्ठारे पलायस्व
मरीचीनां पदं भव ।
अथो यत् कार्यं कुर्व्
आशां सम् ऋष मुष्कयोः ॥ (see Lubotsky 2002, 155-156)
सर्वाष् टीकाः ...{Loading}...
०७ उप क्ष्वेदाभि चालय
विश्वास-प्रस्तुतिः ...{Loading}...
उप क्ष्वेदाभि चालय
वातस् तूलम् इवैजय ।
दद्भिः संदश्य बाह्वोर्
उदद्धि मुरवस्थिये ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप क्ष्वेदाभि चालय
वातस् तूलम् इवैजय ।
दद्भिः संदश्य बाह्वोर्
उदद्धि मुरवस्थिये ॥
सर्वाष् टीकाः ...{Loading}...
०८ अभि गाय शाबलेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभि गाय शाबलेयं
शौणेयं साधुवाहिनम् ।
काल्माषेयस्य चर्कृध्य्
आयतः प्रति चालय ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि गाय शाबलेयं
शौणेयं साधुवाहिनम् ।
काल्माषेयस्य चर्कृध्य्
आयतः प्रति चालय ॥
सर्वाष् टीकाः ...{Loading}...
०९ ऋश्यपुच्छं शुनःपुच्छं वातरंहम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋश्यपुच्छं शुनःपुच्छं
वातरंहं मनोजवम् ।
तं ते रथं सं भरन्तु देवास्
तेना चरासि पतिम् इच्छमाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋश्यपुच्छं शुनःपुच्छं
वातरंहं मनोजवम् ।
तं ते रथं सं भरन्तु देवास्
तेना चरासि पतिम् इच्छमाना ॥