०३३

सर्वाष् टीकाः ...{Loading}...

०१ य इमां देवो

विश्वास-प्रस्तुतिः ...{Loading}...

य इमां देवो मेखलाम् आबबन्ध
यः संननाह य उ मा युयोज ।
यस्य देवस्य प्रशिषा चरामि
स पारम् इच्छात् स उ मा वि मुञ्चात् ॥

०२ आहुतास्य् अभिहुत ऋषीणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

आहुतास्य् अभिहुत
ऋषीणाम् अस्य् आयुधम् ।
पूर्वा व्रतस्य प्राश्नती
वीरघ्नी भव मेखले ॥

०३ मृत्योर् अहं ब्रह्मचारी

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्योर् अहं ब्रह्मचारी यद् अस्मि
भूतान् निर्याचन् पुरुषं यमाय ।
तम् अहं ब्रह्मणा तपसा श्रमेण-
-अनयैनं मेखलया सिनामि ॥

०४ अयं वज्रस् तर्पयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं वज्रस् तर्पयतां व्रतेन-
-अवास्य राष्ट्रम् अभि हन्तु जीवम् ।
भिनत्तु स्कन्धान् प्र शृणातूष्णिहाः ॥

०५ अधरोत्तरम् अधरोत्तरेण गूढः

विश्वास-प्रस्तुतिः ...{Loading}...

अधरोत्तरम् अधरोत्तरेण
गूढः पृथिव्या मोत् सृपत् ।
वज्रेणावहतः शयाम् ॥

०६ यो जिनाति तम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो जिनाति तम् अन्व् इच्छ
यो जिनाति तम् इज् जहि ।
जिनतो वज्र सायक सीमन्तम्
अन्वञ्चम् अनु पातय ॥

०७ यद् अश्नामि बलम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अश्नामि बलं कुर्वे
वज्रम् आ ददा इति ।
स्कन्धान् अमुष्य शातयन्
वृत्रस्येव शचीपतिः ॥

०८ यत् पिबामि सम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पिबामि सं पिबामि
समुद्र इव संपिबः ।
प्राणान् अमुष्य संपिबन्
सं पिबाम्य् अहं पिबम् ॥

०९ यद् गिरामि सम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् गिरामि सं गिरामि
समुद्र इव संगिरः ।
प्राणान् अमुष्य संगिरन्
सं गिराम्य् अहं गिरम् ॥

१० श्रद्धाया दुहिता तपसो

विश्वास-प्रस्तुतिः ...{Loading}...

श्रद्धाया दुहिता तपसो ऽधि जाता
स्वस र्षीणां भूतकृतां बभूव ।
सा नो मेखले मतिम् आ धेहि मेधाम्
अथो नो धेहि तप इन्द्रियं च ॥

११ यां त्वा पूर्वे

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा पूर्वे भूतकृत
ऋषयः परिबेधिरे ।
सा त्वं परि ष्वजस्व मा
दीर्घायुत्वाय मेखले ॥