सर्वाष् टीकाः ...{Loading}...
०१ ये ते पाशा
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते पाशा वरुण सप्त सप्ततीस्
त्रेधा तिष्ठन्ति विषिता रुशन्तः ।
सिनन्ति सर्वे अनृतं वदन्तं
यः सत्यवाद्य् अति तं सृजन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ते पाशा वरुण सप्त सप्ततीस्
त्रेधा तिष्ठन्ति विषिता रुशन्तः ।
सिनन्ति सर्वे अनृतं वदन्तं
यः सत्यवाद्य् अति तं सृजन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०२ इह स्पशः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
इह स्पशः प्र चरन्तीमे अस्य
सहस्राक्षा अति पश्यन्ति भूमिम् ।
यो ऽस्य व्रतं प्रमिनाति कश् च
न स मुच्यते वरुणस्य पाशात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह स्पशः प्र चरन्तीमे अस्य
सहस्राक्षा अति पश्यन्ति भूमिम् ।
यो ऽस्य व्रतं प्रमिनाति कश् च
न स मुच्यते वरुणस्य पाशात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उतेयम् अस्य पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
उतेयम् अस्य पृथिवी समीच्य्
उतासौ द्यौर् बृहती दूरेअन्ता ।
उतो समुद्रो वरुणस्य कुक्षा
उतास्मिन्न् अल्प उदके नमुक्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतेयम् अस्य पृथिवी समीच्य्
उतासौ द्यौर् बृहती दूरेअन्ता ।
उतो समुद्रो वरुणस्य कुक्षा
उतास्मिन्न् अल्प उदके नमुक्तः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यस् तिष्ठति मनसा
विश्वास-प्रस्तुतिः ...{Loading}...
यस् तिष्ठति मनसा यश् च वञ्चति
यो निलायं चरति यः प्रलायम् ।
द्वौ यद्यद् वदतः सन्निषद्य
राजा तद् वेद वरुणस् तृतीयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् तिष्ठति मनसा यश् च वञ्चति
यो निलायं चरति यः प्रलायम् ।
द्वौ यद्यद् वदतः सन्निषद्य
राजा तद् वेद वरुणस् तृतीयः ॥
सर्वाष् टीकाः ...{Loading}...
०५ सर्वं तद् रजा
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वं तद् रजा वरुणो वि चष्टे
यद् अन्तरा रोदसी यत् परस्तात् ।
संख्याता अस्य निमिषो जनानाम्
अक्षान् न श्वघ्नी भुवना मिमीते ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वं तद् रजा वरुणो वि चष्टे
यद् अन्तरा रोदसी यत् परस्तात् ।
संख्याता अस्य निमिषो जनानाम्
अक्षान् न श्वघ्नी भुवना मिमीते ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्वम् एव राजन्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् एव राजन् वरुण
धर्ता देवानाम् असि विश्वरूपः ।
दुश्चर्मास्त्व् अधमः पिशङ्गो
यः सत्यां वाचम् अनृतेन हन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् एव राजन् वरुण
धर्ता देवानाम् असि विश्वरूपः ।
दुश्चर्मास्त्व् अधमः पिशङ्गो
यः सत्यां वाचम् अनृतेन हन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः समाम्यो वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
यः समाम्यो वरुणो यो व्याम्यो
यः सन्देश्यो वरुणो यो विदेश्यः ।
यो दैव्यो वरुणो यश् च मानुषः
सर्वांस् त्वे तान् प्रति मुञ्चाम्य् अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः समाम्यो वरुणो यो व्याम्यो
यः सन्देश्यो वरुणो यो विदेश्यः ।
यो दैव्यो वरुणो यश् च मानुषः
सर्वांस् त्वे तान् प्रति मुञ्चाम्य् अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०८ शतेन पाशैर् वरुणाभि
विश्वास-प्रस्तुतिः ...{Loading}...
शतेन पाशैर् वरुणाभि धेहि
मा ते मोच्य् अनृतवाङ् नृचक्षः ।
आस्तां जाल्म उदरं श्रंसयित्वा
कोश इवाबन्ध्रः परिकृत्यमानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतेन पाशैर् वरुणाभि धेहि
मा ते मोच्य् अनृतवाङ् नृचक्षः ।
आस्तां जाल्म उदरं श्रंसयित्वा
कोश इवाबन्ध्रः परिकृत्यमानः ॥
सर्वाष् टीकाः ...{Loading}...
०९ उतो त्वत् प्र
विश्वास-प्रस्तुतिः ...{Loading}...
उतो त्वत् प्र पातयत्य्
उतो त्वद् अपि नह्यति ।
उतो त्वद् अस्वकं कृत्वा
राजा वरुण ईयते ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतो त्वत् प्र पातयत्य्
उतो त्वद् अपि नह्यति ।
उतो त्वद् अस्वकं कृत्वा
राजा वरुण ईयते ॥
सर्वाष् टीकाः ...{Loading}...
१० ऐनं छिनत्ति वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
ऐनं छिनत्ति वरुणो
नडं कशिपुने यथा ।
मूलं तस्य वृश्चति
य एनं प्रमिमीषति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऐनं छिनत्ति वरुणो
नडं कशिपुने यथा ।
मूलं तस्य वृश्चति
य एनं प्रमिमीषति ॥