०३१

सर्वाष् टीकाः ...{Loading}...

०१ अत्यासरत् प्रथमा धोक्ष्यमाणा

विश्वास-प्रस्तुतिः ...{Loading}...

अत्यासरत् प्रथमा धोक्ष्यमाणा
सर्वान् यज्ञान् बिभ्रती वैश्वदेवी ।
उप वत्सं सृजत वाश्यते गौर्
व्य् असृष्ट सुमना हिं कृणोति ॥

०२ बधान वत्सम् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

बधान वत्सम् अभि धेहि भुञ्जतीं
नि द्य गोधुग् उप सीद दुग्धि ।
इडाम् अस्मा ओदनं पिन्वमाना
कीलालं घृतं मदम् अन्नभागम् ॥

०३ सा धावतु यमराज्ञः

विश्वास-प्रस्तुतिः ...{Loading}...

सा धावतु यमराज्ञः सवत्सा
सुकृतां पथा प्रथमेह दत्ता ।
अतृष्ट दत्ता प्रथमेदम् आगन्
वत्सेन गां सं सृज विश्वरूपाम् ॥

०४ प्रथमेदम् आगन् प्रथमा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथमेदम् आगन् प्रथमा दत्तेताद्
यस्मिꣳल् लोके सद्य उ त्वा ददाति ।
सैनं धेनो प्रथमा पारयासि
श्रद्धया दत्ता परमे व्योमन् ॥

०५ जानीहि स्म संस्कृते

विश्वास-प्रस्तुतिः ...{Loading}...

जानीहि स्म संस्कृते धेनो गोपतिं
यस् त्वा ददाति प्रथमां स्वधानाम् ।
पूर्वा हि तत्र सुकृतः परेह्य्
अथैष ऐता जरसः परस्तात् ॥

०६ अति धेनुर् अनड्वाहम्

विश्वास-प्रस्तुतिः ...{Loading}...

अति धेनुर् अनड्वाहम्
अत्य् अन्यद् वयो अक्रमीत् ।
अति वत्सानां पितरं
ऋषभं प्रतिमासरत् ॥ (read ṛṣabham atimāsarat? (see PS 5.31.7d))

०७ ज्योतिष्मती सुकृतो याहि

विश्वास-प्रस्तुतिः ...{Loading}...

ज्योतिष्मती सुकृतो याहि सूरे
स्योनास् ते धेनो पतयो भवन्तु ।
सप्त त्वा सूर्या अन्वातपन्तु
यमं धाव माति सरः पराचीः ॥ (read parācaiḥ with K? (see PS 5.37.5c))

०८ दात्रे *ऽमुत्र मह्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

दात्रे *ऽमुत्र मह्यं दुहाना-
-उभौ लोकौ भुञ्जती वि क्रमस्व ।
इषम् ऊर्जं दक्षिणाः संवसाना
भगस्य धाराम् अवसे प्रतीमः ॥

०९ सहस्राङ्गा शतं ज्योतींष्य्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्राङ्गा शतं ज्योतींष्य् अस्या
यज्ञस्य पप्रिर् अमृता स्वर्गा ।
सा न ऐतु दक्षिणा विश्वरूपा-
-अहिंसन्तीं प्रति गृह्णीम एनाम् ॥