सर्वाष् टीकाः ...{Loading}...
०१ पयस्वतीर् ओषधयः पयस्वन्
विश्वास-प्रस्तुतिः ...{Loading}...
पयस्वतीर् ओषधयः
पयस्वन् मामकं वचः ।
अथो पयस्वतां पय
आ हरामि सहस्रशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयस्वतीर् ओषधयः
पयस्वन् मामकं वचः ।
अथो पयस्वतां पय
आ हरामि सहस्रशः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अहं वेद यथा
विश्वास-प्रस्तुतिः ...{Loading}...
अहं वेद यथा पयश्
चकार धान्यं बहु ।
संभृत्वा नामा यो देवस्
तं वयं यजामहे
सर्वस्यायज्वनो गृहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं वेद यथा पयश्
चकार धान्यं बहु ।
संभृत्वा नामा यो देवस्
तं वयं यजामहे
सर्वस्यायज्वनो गृहे ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा द्यौश् च
विश्वास-प्रस्तुतिः ...{Loading}...
यथा द्यौश् च पृथिवी च
तस्थतुर् धरुणाय कम् ।
एवा स्फातिं नि तनोमि
मयारेषु खलेषु च ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा द्यौश् च पृथिवी च
तस्थतुर् धरुणाय कम् ।
एवा स्फातिं नि तनोमि
मयारेषु खलेषु च ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथा कूपः शतधारः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा कूपः शतधारः
सहस्रधारो अक्षितः ।
एवा मे अस्तु धान्यं
सहस्रधारम् अक्षितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा कूपः शतधारः
सहस्रधारो अक्षितः ।
एवा मे अस्तु धान्यं
सहस्रधारम् अक्षितम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ शतहस्त समाहर सहस्रहस्त
विश्वास-प्रस्तुतिः ...{Loading}...
शतहस्त समाहर
सहस्रहस्त सं किर ।
यथेह स्फातिर् आयति
कृतस्य कार्यस्य च ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतहस्त समाहर
सहस्रहस्त सं किर ।
यथेह स्फातिर् आयति
कृतस्य कार्यस्य च ॥
सर्वाष् टीकाः ...{Loading}...
०६ इमा याः पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
इमा याः पञ्च प्रदिशो
मानवीः पञ्च कृष्टयः ।
सर्वाः शंभूर् मयोभुवो
वृष्टे शापं नदीर् इव-
-इह स्फातिं समावहान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा याः पञ्च प्रदिशो
मानवीः पञ्च कृष्टयः ।
सर्वाः शंभूर् मयोभुवो
वृष्टे शापं नदीर् इव-
-इह स्फातिं समावहान् ॥
सर्वाष् टीकाः ...{Loading}...
०७ इह स्फातिर् ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इह स्फातिर् ओषधीनां
देवानाम् उत संगमः ।
इहैवाश्विनोर् अस्तु
द्वापराश्वो रुहत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह स्फातिर् ओषधीनां
देवानाम् उत संगमः ।
इहैवाश्विनोर् अस्तु
द्वापराश्वो रुहत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ तिस्रो मात्रा गन्धर्वाणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तिस्रो मात्रा गन्धर्वाणां
चतस्रो गृहपत्न्याः ।
तासां या स्फातिर् उत्तमा
तया त्वाभि मृशामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तिस्रो मात्रा गन्धर्वाणां
चतस्रो गृहपत्न्याः ।
तासां या स्फातिर् उत्तमा
तया त्वाभि मृशामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ ज्येष्ठस्य त्वाङ्गिरसस्य हस्ताभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ज्येष्ठस्य त्वाङ्गिरसस्य
हस्ताभ्याम् आ रभामहे ।
यथासद् बहुधान्यम्
अयक्ष्मं बहुपूरुषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ज्येष्ठस्य त्वाङ्गिरसस्य
हस्ताभ्याम् आ रभामहे ।
यथासद् बहुधान्यम्
अयक्ष्मं बहुपूरुषम् ॥