०२८

सर्वाष् टीकाः ...{Loading}...

०१ प्रमुच्यमानं भुवनस्य गोपः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रमुच्यमानं भुवनस्य गोपः
पशुं नो अत्र प्रति भागम् एतु ।
अग्निर् यज्ञं त्रिवृतं सप्ततन्तुं
देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥

०२ यौ ते दंष्ट्रौ

विश्वास-प्रस्तुतिः ...{Loading}...

यौ ते दंष्ट्रौ सुदिहौ रोपयिष्णू
निर् ह्वयेते दक्षिणाः सं च पश्यतः ।
अनाष्ट्रं नः पितरस् तत् कृणोतु
यूपे बद्धं प्रमुमुचिमा यद् अन्नम् ॥

०३ अह्रस्तस् त्वम् अविदुष्टः

विश्वास-प्रस्तुतिः ...{Loading}...

अह्रस्तस् त्वम् अविदुष्टः परेहि-
-इन्द्रस्य गोष्ठम् अपि धाव विद्वान् ।
धीरासस् त्वा कवयः सं मृजन्त्व्
इषम् ऊर्जं यजमानाय मत्स्व ॥

०४ ऋषिभिष् ट्वा सप्तभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषिभिष् ट्वा सप्तभिर् अत्रिणाहं
प्रति गृह्णामि भुवने स्योनम् ।
जमदग्निः कश्यपः स्वाद्व् एतद्
भरद्वाजो मध्व् अन्नं कृणोतु ।
प्रतिग्रहीत्रे गोतमो वसिष्ठो
विश्वामित्रो ददुषे शर्म यच्छात् ॥

०५ यन् नो अग्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् नो अग्रं हविष आजगाम-
-अन्नस्य पात्रम् उत सर्पिषो वा । +++(read prattam?)+++
यद् वा धनं वहतोर् आजगाम-
-अग्निष् टद् धोता सुहुतं कृणोतु ॥

०६ यद् आज्यं प्रतिजग्रभ

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आज्यं प्रतिजग्रभ यांश् च व्रीहीन्
अजं चन्द्रेण सह यज् जघास ।
बृहस्पतिर् हविषो नो विधर्ता
मा नो हिंसीच् छागो अश्वो वशा च ॥

०७ अग्निर् न एतत्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् न एतत् प्रति गृह्णातु विद्वान्
बृहस्पतिः प्रत्य् एतु प्रजानन् ।
इन्द्रो मरुत्वान् सुहुतं कृणोत्व्
अयक्ष्मम् अनमीवं ते अस्तु ॥

०८ यन् नो ददुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् नो ददुर् वराहम् अक्षितं वसु
यद् वा तल्पम् उपधानेन नः सह ।
यद् वावियूथं सह वृष्ण्या नो
अग्निष् टद् धोता सुहुतं कृणोतु ॥

०९ यन् नः शालाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् नः शालां विश्वभोगाम् इमां ददुर्
गृहं वा योक्त्रं सह कृत्त्योत ।
यद् वा हर उपनाहेन देवा +++(read vāhara (sandhi for vā āhare)?)+++
अग्निष् टद् धोता सुहुतं कृणोतु ॥