सर्वाष् टीकाः ...{Loading}...
०१ तद् इन् नु
विश्वास-प्रस्तुतिः ...{Loading}...
तद् इन् नु मे अचच्छदन्
महद् यक्षं बृहद् वपुः ।
विश्वैर् यद् देवैर् निरृतिस् तना युजा
सं मृत्योर् इह जायते ॥
मूलम् ...{Loading}...
मूलम् (GR)
तद् इन् नु मे अचच्छदन्
महद् यक्षं बृहद् वपुः ।
विश्वैर् यद् देवैर् निरृतिस् तना युजा
सं मृत्योर् इह जायते ॥
सर्वाष् टीकाः ...{Loading}...
०२ अमम्रिश्चित्साप्रथोवददहिम् अहिराजन्तम् ओजसा
विश्वास-प्रस्तुतिः ...{Loading}...
अमम्रिश्चित्साप्रथोवददहिम्
अहिराजन्तम् ओजसा ।
आयुं चित् कुत्सम् अतिथिग्वम् अर्दय
वि निकिल्बिन्दम् ओजसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमम्रिश्चित्साप्रथोवददहिम्
अहिराजन्तम् ओजसा ।
आयुं चित् कुत्सम् अतिथिग्वम् अर्दय
वि निकिल्बिन्दम् ओजसा ॥
सर्वाष् टीकाः ...{Loading}...
०३ यावती द्यावापृथिवी वरिम्णा
विश्वास-प्रस्तुतिः ...{Loading}...
यावती द्यावापृथिवी वरिम्णा
यावद् वा सप्त सिन्धवो महित्वा ।
तावती निरृतिर् विश्ववारा
विश्वस्य या जायमानस्य वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावती द्यावापृथिवी वरिम्णा
यावद् वा सप्त सिन्धवो महित्वा ।
तावती निरृतिर् विश्ववारा
विश्वस्य या जायमानस्य वेद ॥
सर्वाष् टीकाः ...{Loading}...
०४ विश्वस्य हि जायमानस्य
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वस्य हि जायमानस्य देवि
पुष्टस्य वा पुष्टपतिर् बभूविथ ।
नमो ऽस्तु ते निरृते मा त्व् अस्मान्
परा भुजो नापरं हातयासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वस्य हि जायमानस्य देवि
पुष्टस्य वा पुष्टपतिर् बभूविथ ।
नमो ऽस्तु ते निरृते मा त्व् अस्मान्
परा भुजो नापरं हातयासि ॥
सर्वाष् टीकाः ...{Loading}...
०५ देवीम् अहं निरृतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
देवीम् अहं निरृतिं मन्यमानः
पितेव पुत्रं न सचे वचोभिः ।
विश्वस्य या जायमानस्य वेद
शिरःशिरः प्रति सूरो ऽनु तस्थे ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवीम् अहं निरृतिं मन्यमानः
पितेव पुत्रं न सचे वचोभिः ।
विश्वस्य या जायमानस्य वेद
शिरःशिरः प्रति सूरो ऽनु तस्थे ॥
सर्वाष् टीकाः ...{Loading}...
०६ असुन्वन्तम् अयजमानम् इच्छ
विश्वास-प्रस्तुतिः ...{Loading}...
असुन्वन्तम् अयजमानम् इच्छ
स्तेनस्येत्यां तस्करस्यानु शिक्ष ।
स्वपन्तम् इच्छ सा त इत्या
नमस् तु ते निरृते ऽहं कृणोमि ॥
मूलम् ...{Loading}...
मूलम् (GR)
असुन्वन्तम् अयजमानम् इच्छ
स्तेनस्येत्यां तस्करस्यानु शिक्ष ।
स्वपन्तम् इच्छ सा त इत्या
नमस् तु ते निरृते ऽहं कृणोमि ॥
सर्वाष् टीकाः ...{Loading}...
०७ असुन्वकान् निरृतिः सञ्जिघत्सुर्
विश्वास-प्रस्तुतिः ...{Loading}...
असुन्वकान् निरृतिः संजिघत्सुर्
नास्याः पिता विद्यते नोत माता ।
मध्यात् स्वस्राम् अनु जघान सर्वं
न देवानाम् असुर्यं सम् आप ॥
मूलम् ...{Loading}...
मूलम् (GR)
असुन्वकान् निरृतिः संजिघत्सुर्
नास्याः पिता विद्यते नोत माता ।
मध्यात् स्वस्राम् अनु जघान सर्वं
न देवानाम् असुर्यं सम् आप ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् अस्य पारे
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्य पारे तमसः
शुक्रं ज्योतिर् अजायत ।
तन् नः पर्षद् अति द्विषो
ऽग्ने वैश्वानर द्युमत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्य पारे तमसः
शुक्रं ज्योतिर् अजायत ।
तन् नः पर्षद् अति द्विषो
ऽग्ने वैश्वानर द्युमत् ॥