०२६

सर्वाष् टीकाः ...{Loading}...

०१ अरात्या द्यावापृथिवी छिन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

अरात्या द्यावापृथिवी
छिन्तं मूलम् अथो शिरः ।
विच्छिद्य मध्यतः पृष्टीस् (Lubotsky pṛṣṭhīs (misprint))
तां कृण्वाथाम् अधस्पदम् ॥

०२ इदं शृणु जातवेदो

विश्वास-प्रस्तुतिः ...{Loading}...

इदं शृणु जातवेदो
यद् अमुष्या वचो मम ।
अरात्याः सर्वम् इच् छिरः
प्रश्नं वृहतम् अश्विना ॥

०३ या स्वप्नया चरति

विश्वास-प्रस्तुतिः ...{Loading}...

या स्वप्नया चरति
गौर् भूत्वा जनाꣳ अनु ।
अरातिम् इन्द्र त्वं जहि
ताम् अग्निर् इवसा दहात् ॥

०४ श्रेष्ठो मे राजा

विश्वास-प्रस्तुतिः ...{Loading}...

श्रेष्ठो मे राजा वरुणो
हवं सत्येन गच्छतु ।
अरातिं हत्वा सन्तोकाम्
उग्रो देवो ऽभि दासतु ॥

०५ देष्ट्री च या

विश्वास-प्रस्तुतिः ...{Loading}...

देष्ट्री च या सिनीवाली
सप्त च श्रोत्या याः ।
अरातिं विश्वा भूतानि
घ्नन्तु दासीम् इवागसि ॥

०६ सोमो राजौषधीभिः सूर्याचन्द्रमसा

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो राजौषधीभिः
सूर्याचन्द्रमसा उभा ।
अरातिं सर्वे गन्धर्वा
घ्नन्त्व् अप्सरसश् च याः ॥

०७ भवो राजा भवाशर्वाव्

विश्वास-प्रस्तुतिः ...{Loading}...

भवो राजा भवाशर्वाव्
इन्द्रो वायुर् बृहस्पतिः ।
त्वष्टा मे अध्यक्षः पूषा
ते ऽरातिं घ्नन्तु सर्वदा ॥

०८ ये च देवा

विश्वास-प्रस्तुतिः ...{Loading}...

ये च देवा भूमिचरा
ये चामी दिव्य् आसते ।
ये अन्तरिक्षस्येशते
ते ऽरातिं घ्नन्तु सव्रताः ॥

०९ या चेषितासुरैर् देवेभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

या चेषितासुरैर्
देवेभिर् इषिता च या ।
अथो या मन्योर् जायते
ऽरातिं हन्मि ब्रह्मणा ॥