०२५

सर्वाष् टीकाः ...{Loading}...

०१ उतेवास्य् अबन्धुकृद् उतास्य्

विश्वास-प्रस्तुतिः ...{Loading}...

उतेवास्य् अबन्धुकृद्
उतास्य् अनुजामिकः ।
उतो कृत्याकृतः प्रजां
नडम् इवा छिन्धि वार्षिकम् ॥

०२ ब्राह्मणेन पर्युक्तो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

ब्राह्मणेन पर्युक्तो ऽसि
कण्वेन नार्षदेन ।
सेनेवैषि त्विषीमती
न तत्र भयम् अस्ति
यत्र प्राप्नोष्य् ओषधे ॥

०३ अग्रे ऽस्य् ओषधीनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्रे ऽस्य् ओषधीनां
ज्योतिषेवाभिदीपयन् ।
उत पाकस्य त्रातास्य्
उत हन्तासि रक्षसः ॥

०४ यद् अदो देवा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अदो देवा असुरांस्
त्वयाग्रे निरकृण्वत ।
तस्माद् अधि त्वम् ओषधे
अपामार्गो अजायथाः ॥

०५ विभिन्दती शतशाखा विभिन्दन्

विश्वास-प्रस्तुतिः ...{Loading}...

विभिन्दती शतशाखा
विभिन्दन् नाम ते पिता ।
प्रत्यग् वि भिन्धि तं त्वं
यो अस्माꣳ अभिदासति ॥

०६ असद् भूम्याः सम्

विश्वास-प्रस्तुतिः ...{Loading}...

असद् भूम्याः सम् अभवत्
तद् द्याम् एति बृहद् वचः ।
तद् इत् ततो विधूमयत्
प्रत्यक् कर्तारम् ऋच्छतु ॥

०७ प्रत्यङ् हि सम्बभूविथ

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्यङ् हि संबभूविथ
प्रतीचीनफलस् त्वम् ।
प्रतीचीः कृत्या आकृत्य-
-अमुं कृत्याकृतं जहि ॥

०८ शतेन मा परि

विश्वास-प्रस्तुतिः ...{Loading}...

शतेन मा परि पाहि
सहस्रेणाभि रक्ष मा ।
इन्द्रस् ते वीरुधां पत
उग्र ओज्मानम् आ दधौ ॥