०२४

सर्वाष् टीकाः ...{Loading}...

०१ समा भूमिः सूर्येण

विश्वास-प्रस्तुतिः ...{Loading}...

समा भूमिः सूर्येण-
-अह्ना रात्री समावती ।
कृणोमि सत्यम् ऊतये
अरसाः सन्तु कृत्वरीः ॥

०२ यो देवाः कृत्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो देवाः कृत्यां कृत्वा
हराद् अविदुषो गृहम् ।
वत्सो धारुर् इव मातरं
तं प्रत्यग् उप पद्यताम् ॥

०३ अमा कृत्वा पाप्मानम्

विश्वास-प्रस्तुतिः ...{Loading}...

अमा कृत्वा पाप्मानं यस्
तयान्यं जिघांसति ।
अश्मानस् तस्यां दग्धायां
बहुलाः फट् करिक्रतु ॥

०४ सहस्रधामन् विशिखान् विग्रीवाञ्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रधामन् विशिखान्
विग्रीवाञ् छायया त्वम् ।
प्रति स्म चक्रुषे कृत्यां
प्रियां प्रियावते हर ॥

०५ या चकार न

विश्वास-प्रस्तुतिः ...{Loading}...

या चकार न शशाक
शश्रे पादम् अङ्गुलिम् ।
चकार भद्रम् अस्मभ्यम्
अभगा भगवद्भ्यः ॥

०६ अनयाहम् ओषध्या सर्वाः

विश्वास-प्रस्तुतिः ...{Loading}...

अनयाहम् ओषध्या
सर्वाः कृत्या अदूषयम् ।
यां क्षेत्रे चक्रुर् यां गोभ्यो
यां वा ते पुरुषेभ्यः ॥

०७ अपामार्गो ऽप मार्ष्टु

विश्वास-प्रस्तुतिः ...{Loading}...

अपामार्गो ऽप मार्ष्टु
क्षेत्रियं शपथांश् च मत् ।
अपाह यातुधान्यो
ऽप सर्वा अराय्यः ॥

०८ अपमृज्य यातुधानान् अप

विश्वास-प्रस्तुतिः ...{Loading}...

अपमृज्य यातुधानान्
अप सर्वा अराय्यः ।
अपामार्ग प्रजया
त्वं रय्या सचस्व नः ॥