सर्वाष् टीकाः ...{Loading}...
०१ यौ हेमन्तं स्वापयथो
विश्वास-प्रस्तुतिः ...{Loading}...
यौ हेमन्तं स्वापयथो बलेन-
-अर्वाग् देवेभ्य उत यौ परो दिवः ।
भवारुद्रयोः सुमतिं वृणीमहे
ऽन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यौ हेमन्तं स्वापयथो बलेन-
-अर्वाग् देवेभ्य उत यौ परो दिवः ।
भवारुद्रयोः सुमतिं वृणीमहे
ऽन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो द्याम् आतनोति
विश्वास-प्रस्तुतिः ...{Loading}...
यो द्याम् आतनोति यो ऽन्तरिक्षं
स्तभ्नात्य् ओजसो जायमानः ।
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥ +++(the refrain (2d, 3d, …, 8e, 9e) is written in K)+++
मूलम् ...{Loading}...
मूलम् (GR)
यो द्याम् आतनोति यो ऽन्तरिक्षं
स्तभ्नात्य् ओजसो जायमानः ।
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥ +++(the refrain (2d, 3d, …, 8e, 9e) is written in K)+++
सर्वाष् टीकाः ...{Loading}...
०३ ययोर् वधान् नापपद्यते
विश्वास-प्रस्तुतिः ...{Loading}...
ययोर् वधान् नापपद्यते किं चन-
-अन्तर् देवेषूत मानुषेषु ।
ताभ्यां रुद्राभ्यां हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ययोर् वधान् नापपद्यते किं चन-
-अन्तर् देवेषूत मानुषेषु ।
ताभ्यां रुद्राभ्यां हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ याव् ईशाते पशूनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
याव् ईशाते पशूनां पार्थिवानां
चतुष्पदाम् उत वा ये द्विपादः ।
ताभ्यां रुद्राभ्यां हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
याव् ईशाते पशूनां पार्थिवानां
चतुष्पदाम् उत वा ये द्विपादः ।
ताभ्यां रुद्राभ्यां हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ यस्य प्रतिहितायाः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य प्रतिहितायाः सं विशन्त
आरण्याः पशव उत ग्राम्यासः ।
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य प्रतिहितायाः सं विशन्त
आरण्याः पशव उत ग्राम्यासः ।
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०६ यस्माद् ओषधयो बर्भ्रियमाणा
विश्वास-प्रस्तुतिः ...{Loading}...
यस्माद् ओषधयो बर्भ्रियमाणा यन्ति
यस्माद् वृक्षासो न वियन्ति विश्वे ।
वयांसि यस्मात् प्रचरन्ति भीषा
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्माद् ओषधयो बर्भ्रियमाणा यन्ति
यस्माद् वृक्षासो न वियन्ति विश्वे ।
वयांसि यस्मात् प्रचरन्ति भीषा
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः पर्वतान् विदधे
विश्वास-प्रस्तुतिः ...{Loading}...
यः पर्वतान् विदधे ऽति विद्वान्
यो भूतानि कल्पयति प्रजानन् ।
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः पर्वतान् विदधे ऽति विद्वान्
यो भूतानि कल्पयति प्रजानन् ।
तस्मै रुद्राय हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०८ याव् ईशानौ चरतो
विश्वास-प्रस्तुतिः ...{Loading}...
याव् ईशानौ चरतो
द्विपदो ऽस्य चतुष्पदः ।
या उग्रौ क्षिप्रधन्वानौ
ताभ्यां रुद्राभ्यां हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
याव् ईशानौ चरतो
द्विपदो ऽस्य चतुष्पदः ।
या उग्रौ क्षिप्रधन्वानौ
ताभ्यां रुद्राभ्यां हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
सर्वाष् टीकाः ...{Loading}...
०९ पुनश् चक्षुः पुनः
विश्वास-प्रस्तुतिः ...{Loading}...
पुनश् चक्षुः पुनः प्राणं
पुनर् आयुर् धेहि नो जातवेदः ।
रुद्र जलाषभेषज
विद्वांसस् त एना हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनश् चक्षुः पुनः प्राणं
पुनर् आयुर् धेहि नो जातवेदः ।
रुद्र जलाषभेषज
विद्वांसस् त एना हविषा विधेम-
-अन्यत्रास्मद् अघविषा व्य् एतु ॥