०२०

सर्वाष् टीकाः ...{Loading}...

०१ परो ऽपेहि परश्

विश्वास-प्रस्तुतिः ...{Loading}...

परो ऽपेहि परश् चर
परस् तर्द परस्तरम् ।
अग्नेर् वातस्य ध्राज्या
अप बाधे अहं त्वाम् ॥

०२ उदकस्येदम् अयनं वातस्येदम्

विश्वास-प्रस्तुतिः ...{Loading}...

उदकस्येदम् अयनं
वातस्येदं निभञ्जनम् ।
अग्नेर् धूमस्यायं पन्था
नेह तर्दायनं तव ॥

०३ परि त्वा कृष्णवर्तनिर्

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वा कृष्णवर्तनिर्
अग्निर् धूमेनार्चिषा ।
स त्वं तर्द परश् चर-
-अन्यत् तर्द्धि तृणं यवात् ॥

०४ ये तर्दा असुरेषिता

विश्वास-प्रस्तुतिः ...{Loading}...

ये तर्दा असुरेषिता
देवेभिर् इषिताश् च ये ।
सर्वांस् तान् ब्रह्मणा वयं
शलभाञ् जम्भयामसि ॥

०५ शलभस्य शलभ्यास् तर्दस्यो

विश्वास-प्रस्तुतिः ...{Loading}...

शलभस्य शलभ्यास्
तर्दस्यो पतत्रिणः । (read perhaps tardasyotpatatriṇaḥ following Bhatt.)
अग्नेर् वातस्य ध्राज्या-
-अपि नह्याम आस्यम् ॥

०६ इदं यद् गवि

विश्वास-प्रस्तुतिः ...{Loading}...

इदं यद् गवि भेषजं
विश्वाद् रूपात् समाभृतम् ।
आखोर् घुणस्य तर्दस्य
तेषां स्नाव्नापि नह्यत ॥

०७ दृष्टा त्वम् असि

विश्वास-प्रस्तुतिः ...{Loading}...

दृष्टा त्वम् असि गन्धेन-
-ओषधिर् घुणजम्भनी ।
आखोर् घुणस्य जातानि
तानि जम्भय तेजसा ॥

०८ तूलं तर्दस् तृणस्यात्तु

विश्वास-प्रस्तुतिः ...{Loading}...

तूलं तर्दस् तृणस्यात्तु
मूलम् आखुर् धियेषितः ।
अथो वृक्षस्य फल्गु यद्
घुणा अदन्तु मा यवम् ॥