०१९

सर्वाष् टीकाः ...{Loading}...

०१ सहृदयं साम्मनस्यम् अविद्वेषम्

विश्वास-प्रस्तुतिः ...{Loading}...

सहृदयं सांमनस्यम्
अविद्वेषं कृणोमि वः ।
अन्यो अन्यम् अभि हर्यत
वत्सं जातम् इवाघ्न्या ॥

०२ अनुव्रतः पितुः पुत्रो

विश्वास-प्रस्तुतिः ...{Loading}...

अनुव्रतः पितुः पुत्रो
मात्रा भवतु सव्रतः ।
जाया पत्ये मधुमतीं
वाचं वदतु शन्तिवाम् ॥

०३ मा भ्राता भ्रातरम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा भ्राता भ्रातरं द्विक्षन्
मा स्वसारम् उत स्वसा ।
सम्यञ्चः सव्रता भूत्वा
वाचं वदत भद्रया ॥

०४ येन देवा न

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवा न वियन्ति
नो च विद्विषते मिथः ।
तत् कृण्मो ब्रह्म वो गृहे
संज्ञानं पुरुषेभ्यः ॥

०५ ज्यायस्वन्तश् चित्तिनो मा

विश्वास-प्रस्तुतिः ...{Loading}...

ज्यायस्वन्तश् चित्तिनो मा वि यौष्ट
संराधयन्तः सधुराश् चरन्तः ।
अन्यो अन्यस्मै वल्गु वदन्त एत
समग्रा स्थ सध्रीचीनाः ॥

०६ समानी प्रपा सह

विश्वास-प्रस्तुतिः ...{Loading}...

समानी प्रपा सह वो ऽन्नभागः
समाने योक्त्रे सह वो युनज्मि ।
सम्यञ्चो ऽग्निं सपर्यत-
-अरा नाभिम् इवाभितः ॥

०७ येन देवा हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवा हविषा यजत्रा
अप पाप्मानम् अघ्नत ।
क्रोधं मन्युम् अनृतं भामं
दुरुक्तम् अभिशोचनम्
आरे यक्ष्मं नि दध्मसि ॥

०८ सध्रीचीनान् वः सम्मनसः

विश्वास-प्रस्तुतिः ...{Loading}...

सध्रीचीनान् वः संमनसः कृणोम्य्
एकश्नुष्टीन् संवननेन संहृदः ।
देवा इवेद् अमृतं रक्षमाणाः
सायंप्रातः सुसमितिर् वो अस्तु ॥