सर्वाष् टीकाः ...{Loading}...
०१ उत देवा अवहितम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत देवा अवहितं
देवा उद् धरता पुनः ।
उतो मरिष्यन्तं देवा
दैवाः कृणुथ जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत देवा अवहितं
देवा उद् धरता पुनः ।
उतो मरिष्यन्तं देवा
दैवाः कृणुथ जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ त्वागमं शन्तातिभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वागमं शंतातिभिर् (Bhatt. śantātibhir)
अथो अरिष्टतातिभिः ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वागमं शंतातिभिर् (Bhatt. śantātibhir)
अथो अरिष्टतातिभिः ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ द्वाव् इमौ वातौ
विश्वास-प्रस्तुतिः ...{Loading}...
द्वाव् इमौ वातौ वात
आ सिन्धोर् आ परावतः ।
दक्षं ते अन्य आ वातु
परान्यो वातु यद् रपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्वाव् इमौ वातौ वात
आ सिन्धोर् आ परावतः ।
दक्षं ते अन्य आ वातु
परान्यो वातु यद् रपः ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ वात वाहि
विश्वास-प्रस्तुतिः ...{Loading}...
आ वात वाहि भेषजं
वि वात वाहि यद् रपः ।
त्वं हि विश्वभेषजो
देवानां दूत ईयसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वात वाहि भेषजं
वि वात वाहि यद् रपः ।
त्वं हि विश्वभेषजो
देवानां दूत ईयसे ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्रायन्ताम् इमं देवास्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रायन्ताम् इमं देवास्
त्रायन्तां मरुतो गणैः ।
त्रायन्तां विश्वा भूतानि
यथायम् अगदो ऽसति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रायन्ताम् इमं देवास्
त्रायन्तां मरुतो गणैः ।
त्रायन्तां विश्वा भूतानि
यथायम् अगदो ऽसति ॥
सर्वाष् टीकाः ...{Loading}...
०६ घृतेन द्यावापृथिवी घृतेनापः
विश्वास-प्रस्तुतिः ...{Loading}...
घृतेन द्यावापृथिवी
घृतेनापः सम् उक्षत ।
घृतेन मुच्यस्वैनसो
यद् आत्मकृतम् आरिथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृतेन द्यावापृथिवी
घृतेनापः सम् उक्षत ।
घृतेन मुच्यस्वैनसो
यद् आत्मकृतम् आरिथ ॥
सर्वाष् टीकाः ...{Loading}...
०७ अयं मे हस्तो
विश्वास-प्रस्तुतिः ...{Loading}...
अयं मे हस्तो भगवान्
अयं मे भगवत्तरः ।
अयं मे विश्वभेषजो
ऽयं शिवाभिमर्शनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं मे हस्तो भगवान्
अयं मे भगवत्तरः ।
अयं मे विश्वभेषजो
ऽयं शिवाभिमर्शनः ॥
सर्वाष् टीकाः ...{Loading}...
०८ हस्ताभ्यां दशशाखाभ्यां जिह्वा
विश्वास-प्रस्तुतिः ...{Loading}...
हस्ताभ्यां दशशाखाभ्यां
जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां शंभुभ्यां
ताभ्यां त्वाभि मृशामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
हस्ताभ्यां दशशाखाभ्यां
जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां शंभुभ्यां
ताभ्यां त्वाभि मृशामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ आप इद् वा
विश्वास-प्रस्तुतिः ...{Loading}...
आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीस्
तास् ते कृण्वन्तु भेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीस्
तास् ते कृण्वन्तु भेषजम् ॥