सर्वाष् टीकाः ...{Loading}...
०१ द्यौश् चेमं यज्ञम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौश् चेमं यज्ञं पृथिवी च सं दुहातां
मातरिश्वा पवमानः पुरस्तात् ।
त्वष्टा वायुः सह सोमेन वात
इमं सं दुह्राम् अनपस्फुरन्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौश् चेमं यज्ञं पृथिवी च सं दुहातां
मातरिश्वा पवमानः पुरस्तात् ।
त्वष्टा वायुः सह सोमेन वात
इमं सं दुह्राम् अनपस्फुरन्तः ॥
सर्वाष् टीकाः ...{Loading}...
०२ घर्मं तपाम्य् अमृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
घर्मं तपाम्य् अमृतस्य धारया
देवेभ्यो हव्यं परिदे सवित्रे ।
शुक्रं देवाः शृतम् अदन्तु हव्यम्
आसञ् जुह्वानम् अमृतस्य योनौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
घर्मं तपाम्य् अमृतस्य धारया
देवेभ्यो हव्यं परिदे सवित्रे ।
शुक्रं देवाः शृतम् अदन्तु हव्यम्
आसञ् जुह्वानम् अमृतस्य योनौ ॥
सर्वाष् टीकाः ...{Loading}...
०३ उद् वासयाग्नेः शृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् वासयाग्नेः शृतम् अकर्म हव्यम्
आ रोह पृष्ठम् अमृतस्य धाम ।
वनस्पतय उप बर्हि स्तृणीत
मध्वा समन्तं घृतवत् कराथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् वासयाग्नेः शृतम् अकर्म हव्यम्
आ रोह पृष्ठम् अमृतस्य धाम ।
वनस्पतय उप बर्हि स्तृणीत
मध्वा समन्तं घृतवत् कराथ ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो ऽप्सु यक्ष्मः
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽप्सु यक्ष्मः शमयामि तं व
ऊर्जा गव्यूतिं सम् अनज्म्य् एताम् ।
स्तन्यं क्षीरम् अविषं वः कृणोम्य्
असुं धयन्तो ऽपि यूथम् एत ॥ (asuṃ?; Bhatt. aśundhayanto)
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽप्सु यक्ष्मः शमयामि तं व
ऊर्जा गव्यूतिं सम् अनज्म्य् एताम् ।
स्तन्यं क्षीरम् अविषं वः कृणोम्य्
असुं धयन्तो ऽपि यूथम् एत ॥ (asuṃ?; Bhatt. aśundhayanto)
सर्वाष् टीकाः ...{Loading}...
०५ इडानां पुत्रा उत
विश्वास-प्रस्तुतिः ...{Loading}...
इडानां पुत्रा उत मित्रियाणां
पयो धयन्त्व् अहृणीयमानाः ।
ऋतुभिः सस्यम् उत क्ल्̥प्तम् अस्त्व्
इर्यो गोपा रक्षतु वायुर् एनाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इडानां पुत्रा उत मित्रियाणां
पयो धयन्त्व् अहृणीयमानाः ।
ऋतुभिः सस्यम् उत क्ल्̥प्तम् अस्त्व्
इर्यो गोपा रक्षतु वायुर् एनाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ पिबत घृतं यतिधा
विश्वास-प्रस्तुतिः ...{Loading}...
पिबत घृतं यतिधा व एतद्
गुहा हितं निहितं मानवेषु ।
विश्वे देवा वैश्वदेवश् चाग्नौ
यथाभागं हविषो मादयध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पिबत घृतं यतिधा व एतद्
गुहा हितं निहितं मानवेषु ।
विश्वे देवा वैश्वदेवश् चाग्नौ
यथाभागं हविषो मादयध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यो देवानाम् असि
विश्वास-प्रस्तुतिः ...{Loading}...
यो देवानाम् असि श्रेष्ठो
रुद्रस् तन्तिचरो वृषा ।
अरिष्टा अस्माकं वीरा
एतद् अस्तु हुतं तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो देवानाम् असि श्रेष्ठो
रुद्रस् तन्तिचरो वृषा ।
अरिष्टा अस्माकं वीरा
एतद् अस्तु हुतं तव ॥
सर्वाष् टीकाः ...{Loading}...
०८ पूर्णम् अहं करीषिणम्
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्णम् अहं करीषिणं
शतवन्तं सहस्रिणम् ।
विश्वेभिर् अग्ने देवैर्
इमं गोष्ठं सहारुहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्णम् अहं करीषिणं
शतवन्तं सहस्रिणम् ।
विश्वेभिर् अग्ने देवैर्
इमं गोष्ठं सहारुहम् ॥