०१५

सर्वाष् टीकाः ...{Loading}...

०१ पीयूषस्य क्षीरस्य सर्पिषो

विश्वास-प्रस्तुतिः ...{Loading}...

पीयूषस्य क्षीरस्य सर्पिषो
ऽन्नस्याग्रं सं भराम एतत् ।
एतं भागम् अहुताद्भ्यः प्र हिण्मस्
तन् नो हविः प्रति गृहन्तु देवा दैवाः ॥

०२ हुतादो ऽन्ये ऽहुतादो

विश्वास-प्रस्तुतिः ...{Loading}...

हुतादो ऽन्ये ऽहुतादो ऽन्ये
वैश्वदेवं हविर् उभये सं चरन्ति ।
ते सम्यञ्च इह मादयन्ताम्
इषम् ऊर्जं यजमानाय मत्स्व ॥

०३ मेमा भवो मा

विश्वास-प्रस्तुतिः ...{Loading}...

मेमा भवो मा शर्वो वधीद् गा
मा वत्सान् क्लोमश्वयो विदन् नः ।
ये जाता ये च गर्भेष्व् अन्तर्
अरिष्टा अग्ने स्तनम् आ रभन्ताम् ॥

०४ इमा गावो विजावतीः

विश्वास-प्रस्तुतिः ...{Loading}...

इमा गावो विजावतीः प्रजावती
स्त्रीषु संमनसो भवन्तु ।
आसु भूमान्य् अपि पृञ्चन्तु देवा
आसां वत्सान् आयुषा मेदसा सं सृजामि ॥

०५ प्र वीयन्तां स्त्रियो

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वीयन्तां स्त्रियो गावो
विष्णुर् योनिम् अनु कल्पयाति ।
प्रतिगृह्णतीर् ऋषभस्य रेत
उक्षानड्वांश् चरति वासिताम् अनु ॥

०६ प्रयतम् अग्रं न

विश्वास-प्रस्तुतिः ...{Loading}...

प्रयतम् अग्रं न हिनस्ति किं चन
यथाकामं कृणुत सोम्यं मधु ।
साधु यज्ञम् अहुतादो नयन्तु
रायस्पोषा यजमानं सचन्ताम् ॥

०७ नि ते पदाम्

विश्वास-प्रस्तुतिः ...{Loading}...

नि ते पदां पृथिवी यन्तु सिन्धव
उद् ओषधयो जिहतां प्रेरताम् इराः ।
पर्जन्यस्य मरुत उदधिं सान्व् आ हत
भद्रं सस्यं पच्यतां मोदतां जगत् ॥

०८ सप्त ऋषयः सप्त

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त ऋषयः सप्त सदांस्य् एषां
दश क्षिपो अश्विनोः पञ्च वाजाः ।
प्राणो व्यानो मन आकूतिर् वाग् देवी
देवेभ्यो हव्यं वहतु प्रजानती ॥

०९ ये च दृष्टा

विश्वास-प्रस्तुतिः ...{Loading}...

ये च दृष्टा ये चादृष्टाः
क्रिमयः किकृशाश् च ये ।
तेषां शिरांस्य् असिना छिनद्म्य्
अथासां वत्सान् आयुषा मेदसा सं सृजामि ॥