०१४

सर्वाष् टीकाः ...{Loading}...

०१ भूत्या मुखम् असि

विश्वास-प्रस्तुतिः ...{Loading}...

भूत्या मुखम् असि सत्यस्य रश्मिर्
उच्चैःश्लोको दिवं गच्छ ।
उच् छ्रयेथां हविष्कृतौ
साधु देवान् सपर्यतम्
ऋजीषम् अप लुम्पतम् ॥

०२ आपो देवीर् यज्ञकृतश्

विश्वास-प्रस्तुतिः ...{Loading}...

आपो देवीर् यज्ञकृतश्
चित्रा देवीर् हविष्कृतः ।
एकपात्र ओदनो
ऽग्निष्टोमेन संमितः ॥

०३ गायत्री हव्यवाड् असि

विश्वास-प्रस्तुतिः ...{Loading}...

गायत्री हव्यवाड् असि
देवताग्निः सम् इध्यसे ।
सहस्रधारं सुकृतस्य लोके
घृतपृष्ठम् अमर्त्यौ ॥

०४ तपश् च सत्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

तपश् च सत्यं चौदनं
प्राश्नीतां परमेष्ठिनौ ।
ताभ्यां वै स्वर् आभृतं
तेनाधिपतिर् उच्यसे ॥

०५ उरुगायो *ऽसि वायोः

विश्वास-प्रस्तुतिः ...{Loading}...

उरुगायो *ऽसि
वायोः प्राणेन संमितः ।
अप मृध्राणि मज् जहि
मुक्षीय दुरिताद् अहम् ॥

०६ अप रक्षांसि तेजसा

विश्वास-प्रस्तुतिः ...{Loading}...

अप रक्षांसि तेजसा
देवेभ्यो हव्यम् अर्च तम् ।
व्यचस्वान् सप्रथा असि ॥

०७ उच्चैः सुपर्णो दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

उच्चैः सुपर्णो दिवम् उत् पतामुं
प्रियं देवेभ्यो मा कृण्व्
ऋषिभ्यः परि देहि माम् ।
शुक्रं शुक्रेण भक्षया
पिबन्तु सुकृतो मधु ॥

०८ द्वया देवा उप

विश्वास-प्रस्तुतिः ...{Loading}...

द्वया देवा उप नो यज्ञम् आगुर्
यान् ओदनो जुषते यैश् च पृष्टः ।
आदित्या अङ्गिरसः स्वर्गम्
इमं प्राश्नन्त्व् ऋतुभिर् निषद्य ॥