०१३

सर्वाष् टीकाः ...{Loading}...

०१ शिवः शिवाभिर् वयस्वन्

विश्वास-प्रस्तुतिः ...{Loading}...

शिवः शिवाभिर् वयस्वन्
सं गच्छस्व तन्वा जातवेदः ।
रत्नं दधानः सुमनाः पुरस्ताद्
गृहेभ्यस् त्वा वर्चसे निर् वपामि ॥

०२ पृथिव्यां घर्म स्तभितो

विश्वास-प्रस्तुतिः ...{Loading}...

पृथिव्यां घर्म स्तभितो
ऽन्तरिक्षे दिवि श्रितः ।
द्यौर् एनं सर्वतः पातु
यस् त्वा पचत्य् ओदन ॥

०३ ये समुद्रम् ऐरयन्

विश्वास-प्रस्तुतिः ...{Loading}...

ये समुद्रम् ऐरयन् ये च सिन्धुं
ये ऽन्तरिक्षं पृथिवीम् उत द्याम् ।
ये वातेन सरथं यान्ति देवास्
तान् आप्नोत्य् ओदनपाको अत्र ॥

०४ ऋचा कुम्भ्य् अधिहिता

विश्वास-प्रस्तुतिः ...{Loading}...

ऋचा कुम्भ्य् अधिहिता
साम्ना पच्यत ओदनः ।
अंशुं सोमस्यैतं मन्ये
वैश्वदेवम् इदं हविः ॥

०५ उलूखले मुसले ये

विश्वास-प्रस्तुतिः ...{Loading}...

उलूखले मुसले ये च शूर्पे
भूम्याम् उखायां यद् इवाससञ्ज ।
या विप्रुषो यानि निर्णेजनानि
सर्वं तत् ते ब्रह्मणा पूरयामि ॥

०६ ऊर्ध्वः प्रेहि मा

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वः प्रेहि मा सं विक्था
व्य् अस्य रजो अन्तरम् ।
रक्षांसि सर्वा तीर्त्वा-
-अथा रोह दिवं त्वम् ॥

०७ तुरो नो अतुरो

विश्वास-प्रस्तुतिः ...{Loading}...

तुरो नो अतुरो भव
सं धीभिर् धीयताम् अयम् ।
सं पृथिव्या सम् अग्निना
सं सूर्यस्य रश्मिभिः
सं देवानाम् अपस्यया ॥

०८ आजद्द्विषः सुकृतस्य लोके

विश्वास-प्रस्तुतिः ...{Loading}...

आजद्द्विषः सुकृतस्य लोके
तृतीये नाके अधि रोचने दिवः ।
मृत्योः पदं योपयन्तो न्व् एत
पश्चा निकृत्य मृत्युं पदयोपनेन ॥