०१२

सर्वाष् टीकाः ...{Loading}...

०१ वृषा जज्ञे मधवानो

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा जज्ञे मधवानो
ऽयं मधुमतीभ्यः ।
स उ ते योनिम् आ शयां
बड् दक्षः पुरुषो भवन् ॥

०२ योनिं गच्छ मधवान

विश्वास-प्रस्तुतिः ...{Loading}...

योनिं गच्छ मधवान
योन्यां पुरुषो भव ।
ततः पुनर् निर् आयसि
शीर्ष्णा श्रोणी विनोनुदत् ॥

०३ बाणवां इषुधेर् इव

विश्वास-प्रस्तुतिः ...{Loading}...

बाणवाꣳ इषुधेर् इव
कृण्वन् पित्रोर् यथा प्रियम् ।
श्रोणी अहिंसन्न् अन्तरा
दशमे मास्य् आयसि ॥

०४ स प्रत्यङ् प्रत्यावर्त्ता

विश्वास-प्रस्तुतिः ...{Loading}...

स प्रत्यङ् प्रत्यावर्त्ता-
-इते संवत्सरे पुनः ।
यथा जीवासि भद्रया
बिभरत् त्वा महाभवे ॥

०५ सं ते योनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

सं ते योनिम् अचीक्ल्̥पं
सुप्रजास्त्वाय भद्रया ।
तत्रा सिञ्चस्व वृष्ण्यं
दशमास्यम् अविह्रुतम् ॥

०६ गर्भस् ते योनिम्

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भस् ते योनिम् आ शयां
गर्भो जराय्व् आ शयाम् । (jarāyv ā?; Bhatt. and all mss. jarāyuvā)
कुमार उल्बम् आ शयां
त्वष्ट्रा क्ल्̥प्तो यथापरु ॥

०७ यथा राजन् मधवान

विश्वास-प्रस्तुतिः ...{Loading}...

यथा राजन् मधवान
त्वं बीजं विरोहसि ।
एवा त्वम् अस्या निर् भिन्धि
कुमारं योन्या अधि ॥

०८ गर्भम् अधान् मधवानो

विश्वास-प्रस्तुतिः ...{Loading}...

गर्भम् अधान् मधवानो
गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश् चाग्निश् च
गर्भं धाता दधातु ते ॥