०११

सर्वाष् टीकाः ...{Loading}...

०१ अनु ते मन्यताम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु ते मन्यताम् अग्निर्
वरुणस् ते ऽनु मन्यताम् ।
ततस् ते पुत्रो जायतां
स वर्मी गोषु युध्यताम् ॥

०२ इदं वायो ऽनु

विश्वास-प्रस्तुतिः ...{Loading}...

इदं वायो ऽनु जानीहि-
-इदम् इन्द्र बृहस्पते ।
आञ्जनं पुत्रवेदनं
कृण्मः पुंसवनं वयम् ॥

०३ येनैतत् परिष्टभितं यस्मात्

विश्वास-प्रस्तुतिः ...{Loading}...

येनैतत् परिष्टभितं
यस्मात् पुत्रं न विन्दसे ।
इन्द्राग्नी तस्मात् त्वैनसः
परि पाताम् अहर्दिवि ॥

०४ अथर्वाणो अङ्गिरसो विश्वे

विश्वास-प्रस्तुतिः ...{Loading}...

अथर्वाणो अङ्गिरसो
विश्वे देवा ऋतावृधः ।
शृण्वन्त्व् अद्य मे हवम्
अस्यै पुत्राय वेत्तवे ॥

०५ इन्द्राणी वरुणानी सिनीवाल्य्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राणी वरुणानी
सिनीवाल्य् उतादितिः ।
वरुत्र्य् उग्रा पत्नीनां
पुत्रम् अद्य दिदेष्टु ते ॥

०६ पुत्रं ते मित्रावरुणा

विश्वास-प्रस्तुतिः ...{Loading}...

पुत्रं ते मित्रावरुणा
पुत्रं देवी सरस्वती ।
पुत्रं ते अश्विनोभा-
-आ धत्तां पुष्करस्रजा ॥

०७ येषां च नाम

विश्वास-प्रस्तुतिः ...{Loading}...

येषां च नाम जग्रभ
येषां च नोपसस्मर ।
देवास् ते सर्वे संगत्य
पुत्रं जैवातृकं ददन् ॥

०८ आत्मन एनं निर्

विश्वास-प्रस्तुतिः ...{Loading}...

आत्मन एनं निर् मिमीष्व
स त्वत् परि जायताम् ।
त्वं बीजम् उर्वरेव
त्वं बिभृहि योन्याम् ॥

०९ पृथिवी सह यज्ञैर्

विश्वास-प्रस्तुतिः ...{Loading}...

पृथिवी सह यज्ञैर्
नक्षत्रैः सह सूर्यः ।
वातः पतत्रिभिः सह
पुत्रम् अद्य दिदेष्टु ते ॥