०१०

सर्वाष् टीकाः ...{Loading}...

०१ इयं या मुसलाहता

विश्वास-प्रस्तुतिः ...{Loading}...

इयं या मुसलाहता
दृषत्पिष्टा विषासुता ।
तपुर् अग्निस् तपुर् द्यौस्
तपुस् त्वं सुरे भव ॥

०२ विषं ते तोक्म

विश्वास-प्रस्तुतिः ...{Loading}...

विषं ते तोक्म रोहयन्तो ऽब्रुवन्
विषं कुम्भे ऽव स्रव ।
विषं त आमनं सुरे
विषं त्वं हस्त आहिता
विषं प्रतिहिता भव ॥

०३ सिंहस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

सिंहस् ते अस्तु तण्डुलो
व्याघ्रः पर्योदनम् ।
पृदाकूर् अस्तु नग्नहुर्
वृकस्य हृदि सं स्रव ॥

०४ इयं या पात्र

विश्वास-प्रस्तुतिः ...{Loading}...

इयं या पात्र आसूता
शष्पस्रक्वा विघस्वरी ।
वराहमन्युर् अजन्य्
उत्तानपादम् अर्दय ॥

०५ उदर्दनी प्रच्यवनी पांसुपिङ्गा

विश्वास-प्रस्तुतिः ...{Loading}...

उदर्दनी प्रच्यवनी
पांसुपिङ्गा विघस्वरी ।
उत्खातमन्युर् अजनि
यत् पश्चात् तत् पुरस् कृधि ॥

०६ विषं ते पवने

विश्वास-प्रस्तुतिः ...{Loading}...

विषं ते पवने सुरे
रुधिरं स्थाले अस्तु ते ।
मथ्नन्त्व् अन्यो अन्यस्मा
इषुधींस् त्वद् धनुस् त्वत् ॥

०७ विषपावानो रुधिराश् चरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

विषपावानो रुधिराश् चरन्ति
पातारो मर्तास् तवसे सुर इमे ।
हतासो अन्ये योधयन्त्य् अन्यांस्
तम् इच् छंस महिमानं सुरायाः ॥

०८ तान् वीरुधो विस्रवो

विश्वास-प्रस्तुतिः ...{Loading}...

तान् वीरुधो विस्रवो बलेन-
-उत् पातय मादय योधनायै ।
भिन्नारत्नीर् भिन्नशीर्ष्णा सम् ऋच्छताम्
आर्तचेलो विस्रवन् ते सुरापः ॥

०९ विषासुतां पिबत जर्हृषाणा

विश्वास-प्रस्तुतिः ...{Loading}...

विषासुतां पिबत जर्हृषाणा
अस्ना संसृष्टं रुधिरेण मिश्राम् ।
छिन्नहस्तश् चरति ग्रामे अन्तर्
वैरहत्यानि बहुधा पणायन् ॥

१० असिमतीम् इषुमतीम् उन्

विश्वास-प्रस्तुतिः ...{Loading}...

असिमतीम् इषुमतीम्
उन् नयामि सताद् अधि ।
मादयाभि मादय-
-अहिर् इवैनान् प्र रोपय-
-अन्यो ऽन्यस्य मोच् छिषन् ॥