००९

सर्वाष् टीकाः ...{Loading}...

०१ खादिरेण शलिलेन अथो

विश्वास-प्रस्तुतिः ...{Loading}...

खादिरेण शलिलेन-
-अथो कङ्कतदन्त्या ।
अथो विषस्य यद् विषं
तेन पापीर् अनीनशम् ॥

०२ कित्या शतपर्वणा सहस्राक्षेण

विश्वास-प्रस्तुतिः ...{Loading}...

कित्या शतपर्वणा
सहस्राक्षेण चर्मणा ।
तीक्ष्णाभिर् अभ्रिभिर् वयं
निर् अजामः सदान्वाः ॥

०३ सहः सहस्वत्य् असि

विश्वास-प्रस्तुतिः ...{Loading}...

सहः सहस्वत्य् असि-
-इतः कण्वाः परो ऽनुदः ।
इमा या अधुनागता
याश् चेह ग्रहणीः पुरा ॥

०४ न ता इत्था

विश्वास-प्रस्तुतिः ...{Loading}...

न ता इत्था न ता इहाव मासता
उखेव शृङ्गवच् छिरः ।
सदान्वा ब्रह्मणस्पते
तीक्ष्णशृङ्गोदृषन्न् इहि ॥

०५ वि ते नु

विश्वास-प्रस्तुतिः ...{Loading}...

वि ते नु मन्थाः शश्रिरे
बिभिदे ते गदोहनी ।
ददौ ते अद्य गौः कण्वे
परेह्य् अवरं मृणे ॥

०६ यास् तर्के तिष्ठन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यास् तर्के तिष्ठन्ति या वलीके
याः प्रेङ्खे प्रेङ्खयन्त उत या नु घोराः ।
या गर्भान् प्रमृशन्ति
सर्वाः पापीर् अनीनशम् ॥

०७ याश् चेलं वसत

विश्वास-प्रस्तुतिः ...{Loading}...

याश् चेलं वसत उत या नु दूर्शं
नीलं पिशङ्गम् उत लोहितं याः ।
या गर्भान् प्रमृशन्ति
सर्वाः पापीर् अनीनशम् ॥

०८ आखिदन्तीर् विखिदन्तीः प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

आखिदन्तीर् विखिदन्तीः
प्राणम् अस्यापि नह्यत ।
दुर्णाम्नीः सर्वाः संगत्य
मामुष्योच् छिष्ट किं चन ॥