००८

सर्वाष् टीकाः ...{Loading}...

०१ यावती द्यावापृथिवी वरिम्णा

विश्वास-प्रस्तुतिः ...{Loading}...

यावती द्यावापृथिवी वरिम्णा
यावद् वा सप्त सिन्धवो वितष्ठुः ।
वाचं विषस्य दूषणीं
ताम् इतो निर् अवादिषम् ॥

०२ सुपर्णस् त्वा गरुत्मान्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णस् त्वा गरुत्मान्
विष प्रथमम् आवयत् ।
नारोपयो नामादय
उतास्मा अभवत् पितुः ॥ +++(read abhavaḥ?)+++

०३ यां त्वास्थत् पञ्चाङ्गुलिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वास्थत् पञ्चाङ्गुलिर्
वक्राच् चिद् अधि धन्वनः ।
अपस्कम्भस्य बाह्वोर्
निर् अवोचम् अहं विषम् ॥

०४ शल्याद् विषं निर्

विश्वास-प्रस्तुतिः ...{Loading}...

शल्याद् विषं निर् अवोचम्
अञ्जनात् पर्णधेर् उत ।
अपाष्ठाच् छृङ्गात् कुर्मलान्
निर् अवोचम् अहं विषम् ॥

०५ अरसस् त इषो

विश्वास-प्रस्तुतिः ...{Loading}...

अरसस् त इषो शल्यो
ऽथो ते ऽरसं विषम् ।
उतारसस्य वृक्षस्य
धनुष् टे अरसारसम् ॥

०६ ये +ऽपीषन् ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये +ऽपीषन् ये ऽदिहन्
य आस्यन् ये ऽवासृजन् ।
सर्वे ते वध्रयः सन्तु
वध्रिर् विषगिरिष् कृतः ॥

०७ वध्रयस् ते खनितारो

विश्वास-प्रस्तुतिः ...{Loading}...

वध्रयस् ते खनितारो
वध्रिस् त्वम् अस्य् ओषधे ।
वध्रिः स पर्वतो गिरिर्
यतो जातम् इदं विषम् ॥

०८ वार् इदं वारयातै

विश्वास-प्रस्तुतिः ...{Loading}...

वार् इदं वारयातै
वरुणावत आभृतम् ।
तत्रामृतस्यासिक्तं
तच् चकारारसं विषम् ॥