००७

सर्वाष् टीकाः ...{Loading}...

०१ समुत्पतन्तु प्रदिशो नभस्वतीः

विश्वास-प्रस्तुतिः ...{Loading}...

समुत्पतन्तु प्रदिशो नभस्वतीः
सम् अभ्राणि वातजूतानि यन्तु ।
महर्षभस्य नदतो नभस्वतो
वाश्रा आपः पृथिवीं तर्पयन्तु ॥

०२ सम् ईक्षयति विष्वग्वातो

विश्वास-प्रस्तुतिः ...{Loading}...

सम् ईक्षयति विष्वग्वातो नभांस्य्
अपां वेगासः पृथग् उत् पतन्तु ।
वर्षस्य सर्गा महयन्तु भूमिं
पृथग् जायन्ताम् ओषधयो विश्वरूपाः ॥

०३ अभि क्रन्द स्तनयार्दयोदधिम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि क्रन्द स्तनयार्दयोदधिं
भूमिं पर्जन्य पयसा सम् अङ्धि ।
त्वया वर्षं बहुलम् एतु सृष्टम्
आशारैषी कृशगुर् एत्व् अस्तम् ॥

०४ उद् ईरयत मरुतः

विश्वास-प्रस्तुतिः ...{Loading}...

उद् ईरयत मरुतः समुद्रतस्
त्वेषा अर्का नभ उत् पातयन्तु ।
प्र वर्षयन्ति तविषाः सुदानवो
ऽपां रसैर् ओषधयः सचन्ताम् ॥

०५ गणास् त्वोप गायन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

गणास् त्वोप गायन्तु मारुताः
पर्जन्य घोषिणः पृथक् ।
सर्गा वर्षस्य वर्षतः
सृजन्तु पृथिवीम् अभि ॥

०६ सम् अवन्तु सुदानव

विश्वास-प्रस्तुतिः ...{Loading}...

सम् अवन्तु सुदानव
उत्सा अजगरा उत ।
वाता वर्षस्य वर्षतः
प्र वान्तु पृथिवीम् अनु ॥

०७ वातो विद्युद् अभ्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

वातो विद्युद् अभ्रं वर्षं
सम् अवन्तु सुदानवः ।
प्र प्यायस्व प्र पिन्वस्व
सं भूमिं पयसा सृज ॥

०८ अपाम् अग्निस् तनूभिः

विश्वास-प्रस्तुतिः ...{Loading}...

अपाम् अग्निस् तनूभिः संविदानो
य ओषधीनाम् अधिपा बभूव ।
स नो वर्षं वनुतां जातवेदाः
प्राणं प्रजाभ्यो अमृतं दिवस् परि ॥

०९ आशाम्आशां वि द्योतताम्

विश्वास-प्रस्तुतिः ...{Loading}...

आशाम्-आशां वि द्योततां
वाता वान्तु दिशो-दिशः ।
मरुद्भिः प्रच्युता मेघा
वर्षन्तु पृथिवीम् अभि ॥ +++(read anu with K instead of abhi?))+++

१० प्रजापतिः सलिलाद् आ

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिः सलिलाद् आ समुद्राद्
आप ईरयन्न् उदधिम् अर्दयाति ।
प्र प्यायतां वृष्णो अश्वस्य रेतो
ऽर्वाङ् एतेन स्तनयित्नुनेह्य्
अपो निषिञ्चन्न् असुरः पिता नः ॥

११ श्वसन्तु गर्गरा अपाम्

विश्वास-प्रस्तुतिः ...{Loading}...

श्वसन्तु गर्गरा अपाम्
अव नीचीर् अपः सृज ।
वदन्तु पृश्निबाहवो
मण्डूका ईरिणानु ॥

१२ संवत्सरं शशयाना ब्राह्मणा

विश्वास-प्रस्तुतिः ...{Loading}...

संवत्सरं शशयाना
ब्राह्मणा व्रतचारिणः ।
वाचं पर्जन्यजिन्वतां
प्र मण्डूका अवादिषुः ॥

१३ उपप्रवद मण्डूकि वर्षम्

विश्वास-प्रस्तुतिः ...{Loading}...

उपप्रवद मण्डूकि
वर्षम् आ वद तादुरि ।
मध्ये ह्रदस्य प्लवस्व
विगृह्य चतुरः पदः ॥

१४ महान्तं कोशम् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

महान्तं कोशम् उद् अचाभि षिञ्च
सविद्युतं भवतु वातु वातः ।
तन्वतां यज्ञं बहुधा विसृष्टम्
आनन्दिनीर् ओषधयो भवन्तु ॥