००६

सर्वाष् टीकाः ...{Loading}...

०१ सप्त सूर्या दिवम्

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त सूर्या दिवम् अनुप्रविष्टास्
तान् पथा वा अन्व् एति दक्षिणावान् ।
ते ऽस्मै सर्वे घृतम् आ तपन्त्य्
ऊर्जं दुहाना अनपस्फुरन्तः ॥

०२ आतपन् क्षयति नीचा

विश्वास-प्रस्तुतिः ...{Loading}...

आतपन् क्षयति नीचा
दासव्याधी निष्टपन् ।
अधायत्पत्रः सूर्य
उद् एति बृहतीर् अनु ॥

०३ आतप्ता पितॄन् विद्म

विश्वास-प्रस्तुतिः ...{Loading}...

आतप्ता पितॄन् विद्म
दस्यून् निष्टप्ता वयम् ।
गुहा ये ऽन्ये सूर्याः
स्वधाम् अनु चरन्ति ते ॥

०४ द्यौः सचते ऽपराञ्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौः सचते ऽपराञ् जनासः
पञ्चान्ये परो दिव आ क्षियन्ति ।
तां ब्रह्म दिवं बृहद् आ विवेश
यस् तान् प्रवेद प्रतरम् अतीर्यत ॥

०५ यो ददाति यो

विश्वास-प्रस्तुतिः ...{Loading}...

यो ददाति यो ददते
यो वा निधीन् श्रद्दधानो निधत्ते ।
यमो वैवस्वतान् राजा
सर्वान् रक्षतु शेवधीन् ॥

०६ मा विदन् पर्यायिणो

विश्वास-प्रस्तुतिः ...{Loading}...

मा विदन् पर्यायिणो
ये दक्षिणाः परिमुष्णन्ति दत्तम् ।
सुगेन तान् पथा सर्वान्
यमो राजाति नेषति ॥

०७ येन पथा वैवस्वतो

विश्वास-प्रस्तुतिः ...{Loading}...

येन पथा वैवस्वतो
यमो राजेतो ययौ ।
अग्निर् नस् तेन नयतु प्रजानन्
वैश्वानरः पथिकृद् विश्वगृष्टिः ॥

०८ महि ज्योतिर् निहितम्

विश्वास-प्रस्तुतिः ...{Loading}...

महि ज्योतिर् निहितं मर्त्येषु
येन देवासो अतरन्न् अरातीन् ।
तेनेमं सेतुम् अति गेष्म सर्वे
वैश्वानरं ज्योतिर् अमीव देवाः ॥

०९ उद् वयं तमसस्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् वयं तमसस् परि
ज्योतिष् पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यम्
अगन्म ज्योतिर् उत्तमम् ॥

१० आरोको भ्राजः पटरः

विश्वास-प्रस्तुतिः ...{Loading}...

आरोको भ्राजः पटरः पतङ्गः
स्वर्णरो ज्योतिषीमान् विभासः ।
ते ऽस्मै सर्वे घृतम् आ तपन्त्य्
ऊर्जं दुहाना अनपस्फुरन्तः ॥