००४

सर्वाष् टीकाः ...{Loading}...

०१ ममाग्ने वर्चो विहवेष्व्

विश्वास-प्रस्तुतिः ...{Loading}...

ममाग्ने वर्चो विहवेष्व् अस्तु
वयं त्वेन्धानास् तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश् चतस्रस्
त्वयाध्यक्षेण पृतना जयेम ॥

०२ अग्ने मन्युं प्रतिनुदन्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने मन्युं प्रतिनुदन् परेषां
त्वं नो गोपाः परि पाहि विश्वतः ।
अपाञ्चो यन्तु प्रबुधा दुरस्यवो
ऽमैषां चित्तं बहुधा वि नश्यतु ॥

०३ मम देवा विहवे

विश्वास-प्रस्तुतिः ...{Loading}...

मम देवा विहवे सन्तु सर्व
इन्द्रवन्तो मरुतो विष्णुर् अग्निः ।
ममान्तरिक्षम् उरुलोकम् अस्तु
मह्यं वातः पवतां कामे अस्मिन् ॥

०४ मह्यं यजन्तां मम

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यं यजन्तां मम यानीष्टा-
-आकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच् चनाहं
विश्वे देवा अभि रक्षन्तु माम् इह ॥

०५ मह्यं देवा द्रविणम्

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यं देवा द्रविणम् आ यजन्तां
ममाशीर् अस्तु मम देवहूतिः ।
दैवा होतारः सनिषन् न एतद्
अरिष्टाः स्याम तन्वा सुवीराः ॥

०६ देवीः षड् उर्वीर्

विश्वास-प्रस्तुतिः ...{Loading}...

देवीः षड् उर्वीर् उरु णस् कराथ
विश्वे देवास इह मादयध्वम् ।
मा हास्महि प्रजया मा धनेन
मा रधाम द्विषते सोम राजन् ॥

०७ उरुव्यचा नो महिषः

विश्वास-प्रस्तुतिः ...{Loading}...

उरुव्यचा नो महिषः शर्म यच्छाद्
अस्मिन् वाजे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृड-
-इन्द्र मा नो रीरिषो मा परा दाः ॥

०८ धाता विधर्ता भुवनस्य

विश्वास-प्रस्तुतिः ...{Loading}...

धाता विधर्ता भुवनस्य यस् पतिः
सविता देवो अभिमातिषाहः ।
बृहस्पतिर् इन्द्राग्नी अश्विनोभा
देवाः पान्तु यजमानं निरृथात् ॥

०९ इहार्वाञ्चम् अति ह्वय

विश्वास-प्रस्तुतिः ...{Loading}...

इहार्वाञ्चम् अति ह्वय
इन्द्रं जैत्राय जेतवे ।
अस्माकम् अस्तु केवल
इतः कृणोतु वीर्यम् ॥

१० अर्वाञ्चम् इन्द्रम् अमुतो

विश्वास-प्रस्तुतिः ...{Loading}...

अर्वाञ्चम् इन्द्रम् अमुतो हवामहे
यो गोजिद् धनजिद् अश्वजिद् यः ।
इमं नो यज्ञं विहवे जुषस्व-
-अस्माकं कृण्मो हरिवो मेदिनं त्वा ॥

११ त्रातारम् इन्द्रम् अवितारम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रातारम् इन्द्रम् अवितारम् इन्द्रं
हवेहवे सुहवं शूरम् इन्द्रम् ।
हुवेम शक्रं पुरुहूतम् इन्द्रं
स्वस्ति नो मघवान् पात्व् इन्द्रः ॥

१२ तिस्रो देवीर् महि

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो देवीर् महि मे शर्म यच्छन्
प्रजायै मे तन्वे यच् च पुष्टम् ।
मां विशः संमनसो जुषन्तां
पित्र्यं क्षेत्रं प्रति जानात्व् अस्मान् ॥

१३ यो नः शक्राभिमन्युना

विश्वास-प्रस्तुतिः ...{Loading}...

यो नः शक्राभिमन्युना-
-इन्द्रामित्रो जिघांसति ।
त्वं तं वृत्रहञ् जहि
वस्व् अस्मभ्यम् आ भर ॥

१४ ये नः शपन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ये नः शपन्त्य् अप ते भवन्त्व्
इन्द्राग्निभ्याम् अप बाधामहे तान् ।
आदित्या रुद्रा उपरिस्पृशो माम्
उग्रं चेत्तारम् अधिराजम् अक्रन् ॥